________________
जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तं जहा अप्पणो से पुत्ताणं, धूयाणं, सुण्हाणं, नाइणं, धाइणं, राइणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, आएसाए, पुढोपहेणाए, सामासाए, पायरासाए, संनिहिसंनिचओ कज्जइ, इहमेगेसिं माणवाणं भोयणाए ॥८७॥
- यैर्यद् वा इदं - सुखदुःखप्राप्तिपरिहारत्वमुदिश्य विरूपरूपैः शस्त्रैः लोकाय लोकेन वा कर्मसमारम्भाः - कृषिवाणिज्यादिरुपसंरम्भसमारम्भारम्भाः क्रियन्ते, तद्यथा-आत्मने-शरीराय, तस्य पुत्रेभ्यः, दुहितृभ्यः, स्नुषाभ्यः, ज्ञातिभ्यः, धात्रीभ्यः, राजभ्यः, दासेभ्यः, दासीभ्यः, कर्मकरेभ्यः, कर्मकरीभ्यः, आदेशाय-प्राघूर्णकाय, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं - खाद्योपायनार्थं, श्यामाशाय - रजनीभोजनाय, प्रातराशाय सन्निधिसन्निचयः क्रियते इहैकेषां मानवानां भोजनाय । अतस्तस्मिन् लोके साधुर्वृत्तिमन्वेषयेदिति ॥८॥
किंभूतेन साधुना कथं वृत्तिरन्वेषणीयेत्याह -
समुट्ठिए अणगारे आरिए आरियपन्ने आरियदंसी अयं संधित्ति अदक्खु, से नाइए नाइयावए न समणुजाणइ, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए ॥८८॥
समुत्थितः अनगार आर्यः - चारित्रार्हः आर्यप्रज्ञ आर्यदर्शी अयं संधिः - सर्वाः प्रत्युपेक्षणादिक्रिया अन्योन्याऽबाधयाऽऽत्मीय-कर्तव्यकाले करोतीत्यर्थः, अयं संधिमदक्खु इति पाठान्तरमाश्रित्य अयं-साधुः सन्धि - कर्तव्यासरं अद्राक्षीत्, स नाददीत अकल्प्यं, सइंगालं सधूमं वा नाऽद्याद् वा नाऽऽदापयेत् नाऽऽदयेद् वा । आददानं अदन्तं वा न समनुजानीयात् । सर्वामगन्धम्आमम्-अपरिशुद्धम् एतेन विशुद्धकोटिरुपात्ता, गन्धः- पूतिरित्यनेनाऽविशुद्धकोटिग्रहणं, तत्सर्वं परिज्ञाय निरामगन्धः परिव्रजेदिति ॥८८॥
अनन्तरोक्तसूत्रे “निरामगन्धो परिव्रजेदित्युक्तं तत्र व्याख्यान्तरेण आमग्रहणेन हननकोटिनयं गन्धग्रहणेन च पचनकोटित्रिकमुपात्तं क्रयणकोटित्रिकं तु पुनः स्वरुपेणैवोच्यते
अदिस्समाणे कयविक्कयेसु, से ण किणे, न किणावए, किणंतं न समणुजाणइ, से भिक्खू कालन्ने, बालन्ने, मायन्ने, खेयन्ने, खणयन्ने, विणयन्ने स-समय-पर-समयन्ने, भावन्ने, परिग्गहं अममायमाणे कालाणुट्ठाइ अपडिण्णे ॥८९॥
३२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)