________________
भिदुरेषु न रज्येत् कामेषु बहुतरेषु अपि पाठान्तरं वा कामेसु बहुलेसु अनल्पेष्वपीत्यर्थ इच्छालोभं इच्छारूपो लोभश्च चक्रवर्तित्वाद्यभिलाषादिको निदानस्तम् न सेवेत, ध्रुववर्ण-संयमं मोक्षं वा यद्वा शाश्वतीं यशःकीर्तिम् सम्प्रेक्ष्य ||२३|| किंच -
कश्चित् यावज्जीवमपरिक्षयात् शाश्वतैर्निमन्त्रयेत् तथा दिव्यां मायां न श्रद्दधीत । तां प्रतिबुध्यस्व । माहनः साधुः सर्वं नूमं कर्म मायां वा विधूनीयात् ||२४|| किंच -
सर्वार्थैः सर्वार्थेषु वाऽमूर्च्छितः, आयुः कालस्य पारगः तितिक्षां परमां-प्रधानां ज्ञात्वा विमोहान्यतरद्-विगतमोहानां भक्तपरिज्ञेङ्गितमरणपादपोपगमनानां त्रयाणामन्यतरत् हितमतो विधेयमिति ब्रवीमि ॥ २५॥
* * *
॥ उपधानश्रुताख्यमध्यनं ९ : उद्देशकः १ ॥
इहानन्तरोक्तोऽर्थः सर्वाऽपि भगवता वर्धमानस्वामिना स्वत एवाचीर्ण इत्येतदत्र प्रतिपाद्यते - अहासुयं वइस्सामि जहा से समणे भगवं उट्ठाए । संखाए तंसि हेमंते अहुणा पव्वइए इत्था || १ || णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एवं खु अणुधम्मियं तस्स ॥ २॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥ ३ ॥ संवच्छरं साहियं मासं जं न रिक्कासि वत्थगं भगवं । अचेलए तओ चाइ तं वोसिज्ज वत्थमणगारे ॥४॥
यथाश्रुतं यथासूत्रं वा वदिष्यामि यथा स श्रमणो भगवान् उत्थाय । संख्याय-ज्ञात्वा तस्मिन् हेमन्ते अधुना प्रव्रजितो रीयतेस्म - विहरति स्म ॥१॥ अत्र च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, भगवताऽपि गरीयस्त्वात्सचेलस्य धर्मस्याऽन्यैः तथागतैः शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दध्रे न लज्जया । एतद्दर्शयितुमाह - नो चैवाऽनेन वस्त्रेण पिधास्यामि तस्मिन हेमन्ते । स पारगो यावत्कथम् एतत् - वस्त्रं खलु तस्य अनुधार्मिकम् - अपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थः ॥२॥ चतुरः साधिकान् मासान्, बहवः प्राणिजातिका आगत्य । अभिरुह्य कायं विजहुः, आरुह्य आरुष्टा वा तत्र काये अहिंसन् । कियत्कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दर्शयितुमाह - संवत्सरं साधिकं मासं यन्न त्यक्तवान वस्त्रं भगवान् । अचेलकोऽभूत तत उर्ध्वं त्यागी तद् व्युत्सुज्य वस्त्रम् अनगारः । ||४||
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * १०५