________________
घ्नन्ति, अप्येके मांसाय घ्नन्ति, अप्येके शोणिताय घ्नन्ति एवं हृदयाय, पित्ताय वसायै, पिच्छाय पुच्छाय वालाय शृङ्गाय विषाणाय दन्ताय दंष्ट्रायै नखाय स्नाय्वे अस्थने अस्थिमञ्जयै अर्थाय प्रयोजनाय, अनर्थाय निष्प्रयोजनं, अप्येके हिंसितवान् मे स्वजनादिकमिति वा घ्नन्ति, अप्येके हिंसन्ति मे स्वजनादिकमिति वा घ्नन्ति, अप्येके हिंसिष्यन्ति मे स्वजनादिकमिति घ्नन्तीति ॥५४॥
एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह
एत्थं सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवति, तं परिण्णाय मेहावी णेव सयं तसकायसत्थं समारंभेजा, णेवऽण्णेहिं तसकायसत्थं समारंभावेजा, णेवऽण्णे तसकायसत्थं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ५५ ॥
पूर्ववत् व्याख्येयमिति नवरं त्रसकायालापकेनेति ।। ५५ ।।
॥ अध्ययनं -१ : उद्देशकः ७ ॥
अथ प्रतिज्ञातवायुकायप्रतिपादनायारभ्यते -
पहू एजस्स दुगुंछणा ॥५६॥
प्रभुः- समर्थ एजस्य जनशीलस्य कम्पनशीलस्य वायोः जुगुप्सायां - निवृत्तौ । एतदुक्तं भवति साधुर्वायुकाय- समारम्भनिवृत्ती समर्थो भवतीत्यर्थः ॥ ५६॥
-
-
कथं वायुकायसमारम्भनिवृतौ - समर्थो भवतीत्याह
आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ से बहिआ जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एयं तुलमन्नेसिं ॥५७॥
भवातन्कदर्शी वायुकायसमारम्भे अहितमिति ज्ञात्वा, अन्यच्च यः अध्यात्म-आत्मनि सुखदुःखादि जानाति स बहिः वायुकायादावपि जानाति, यो बहिर्जानाति सः अध्यात्मं जानाति । ज्ञात्वा च किं कुर्यादित्य 'यथा मम सुखदुःखे इष्टानिष्टे तथा सर्व जीवानामिति' एतां तुलाम् अन्वेषयेद् - कुर्यादित्यर्थः ॥५७॥
१८ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका )