Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीवत्वार्थ
हरि. ८ अध्या०
madhumal
नोकषायखरूप
लयंतीति संज्वलनाः,यथाह-"संज्वलयंति यतिं यत् संविग्नं सर्वपापविरतमिति । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यते ॥१॥"| इतिशब्दः कषायवेदनीयेयत्तामाह, 'एकश' इति एकैकस्य अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनकषायस्य क्रोधादयो भेदाश्चत्वारचत्वार इति, तत्र अप्रत्याख्यानक्रोधाद्युदाहरणानि भूराज्यस्थिमेषशृंगकर्दमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेः जलराशितिनिसलतावलेहहरिद्रारागाः, एवमेते षोडश भेदाः कषायवेदनीयस्येति । प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते, नोकषायवेदनीयं नवभेदमिति कषायैकदेशत्वात् कषायविशेषत्वाद्वा नोकषायाः-हास्यादयः, | मिश्रार्थो वा नोशब्दः, कषायसहवृत्तय एते स्वकार्यनिर्वर्तनप्रत्यलाः, न हमीषां पृथक् सामर्थ्यमस्ति, यद्दोषश्च यः कषायस्तत्| सहचारिणः एतेऽपि तत्तदोषा एव भवंति, एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायंते, तस्मादेतेऽपि चरणोपघातकारित्वात् तत्तुल्यतयैव ग्राह्याः, तथा अन्येनाप्यवाचि-"कषायसहवर्तित्वात् , कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता॥१॥"तथत्यनेन नवापि नोकषायान् खरूपेणाख्यातुमुपक्रमते,तत्र हास्यनोकपायमोहोदयात् सनिमित्तमनिमित्तं वा हसति-स्मयते रंगावतीर्णनटवत् , रतिमोहोदयाद् बाह्याभ्यंतरेषु रतिः-प्रीतिः आसक्तिः इष्टेषु वा शब्दादिविषयेषु, अरतिमोहो| दयादेतेष्वेवाप्रीतिररतिः, शोकमोहोदयात् परिवेदते हंति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोटते भुवः पीठ इत्यादि, भयमोहोदयात् सत्युद्धिजते वेपत इत्यादि, जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि, पुरुष-1 वेदमोहोदयादनेकाकारासु खीष्वमिलाप आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा 'संकल्पजाखपी'त्यादि,स्त्रीवेदमोहोदयात् ॥३८२॥ नानाकारेषु पुरुषेष्वमिलापः, संकल्पजेषुचेत्यादि, नपुंसकवेदमोहो बहुभेदः, तदुदयादू कस्यचित् स्त्रीपुरुषद्वयविषयोऽप्यभिलाषः
॥३२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556