Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतचार्थ
हरि०
परीषहजयफलं
९ अध्या०
नामकम्मोदयात् तीर्थस्य प्रयाणकः वन्दनपूजा)हन तेनामोधवचनेन स्वाख्यातः अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः | सुष्टु उत्सर्गापवादलक्षण आख्यातः धर्म इत्येवमस्य धर्मस्वाख्यातत्त्वमनुचिंतयतो मार्गाच्यवनेन तदनुष्ठानेन च । व्यवस्थानं भवतीति मार्गो रत्नत्रयं मुक्तेः स्वरूपं वा तसादच्यवनं-अपतनं तदिदं मार्गस्य सम्बन्धः तस्यानुष्ठानं श्रद्धानखा| ध्यायक्रियाचरणमिति,तदेव च परमार्थतोऽच्यवनं मार्गाद्यथोक्तक्रियानुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा१२॥ उक्ता अनुप्रेक्षाः सोदाहरणाः, सम्प्रति परीपहान् पक्ष्याम इति प्रतिजानीते
मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः ॥२-८ ॥ सूत्रम् ॥ ___ अर्थशब्दः प्रत्येकमभिसंवध्यते, मार्गाच्यवनाथं निर्जरार्थ, परीषहसहने मार्गाच्यवनं प्रयोजनं, कदाचित् क्लिष्टचित्तः क्लीयत्वात् तत्सहनाप्रवृत्तः सन्मार्गात् प्रच्यवेतापि अतस्तत्सहनादरः, मार्गस्थस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्पचेतसो निराकुलिकध्यानस्य जायते कर्मनिर्जरा, एतदेवाह-सम्यग्दर्शनादेरित्यादि (१९५-१६) तच्चार्थश्रद्धानादिलक्षणो मार्गो निवृत्तेरात्यन्तिस्याः तस्मान्मार्गान् मा प्रच्युतिर्भविष्यतीति सह्यन्ते परीपहाः, तथा ज्ञानावरणादिकर्मक्षपणार्थ परिपोढव्याः परीषहाः, | सिद्धिप्राप्तिकारणसंवरविघ्नहेतवः परिषोढव्या परीषहा इति निर्वचनं,समन्तादापततः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः पोढव्याः सहितव्याः परीषहाः,भण्यन्ते परीषात इति परीपहाः, कियंतस्ते के च पुनः किस्वरूपा वेत्याह-तद्यथेति संख्यादिनिरूपणोपक्रमणं । क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्याशय्यानिषद्याक्रोशयाचनाऽलाभरोगतृणस्पर्शमल
सत्कारपुरस्कारप्रज्ञाज्ञानसम्यक्त्वानि ॥ १-१॥ सूत्रम् ।।
॥४५९॥
॥४५५||
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556