Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीस्वार्थ
हरि०
९ अध्या०
||४५८ ।।
Jain Education International
अनादौ संसार (१९५ - १ ) इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति, अनादाविति सर्वकालावस्थायिनि संसारे, किं स्वरूपेण १, नरकादिष्वित्याह, तेषुरभवग्रहणेषु पुनः पुनः चक्र इव परिभ्रमतो, न तत्कृतः प्राणिनः शारीरमानसैर्नानाप्रकारै| दु:खैरालीढस्य तच्चार्थाश्रद्धानाविरतिप्रमादकषायादिभिरुपहत मतेर्ज्ञानावरणाद्युदयाभिभूतस्य ज्ञानावरणादिकर्म्मचतुष्टयं घा - तिकर्म्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदेवाह - सम्यग्दर्शनादिनेत्यादि, सम्यग्दर्शन विरत्यप्रमादाक| पायविशुद्धो बोधिदुर्लभो भवतीति विभक्तिपरिणामेनामिसंबंधनीयं, जन्तुना दुर्लभ इति, बोधिशब्देनात्र चारित्रमेव विवक्षितं, अथवा पाठान्तरं सम्यग्दर्शनादिरेव बोधिः अपगत सकलशंकादिदोषः रहितो (दूपणेन) दुःखेन लभ्यत इति, एवं बोधेर्दुर्लभत्वमनुचितयतो बोधिं प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ११॥
स्वाख्यातधर्म्मानुप्रेक्षां प्रतिपादयन्नाह - सम्यग्दर्शनप्रतिष्ठामन्तरेण न महाव्रतादिलाभः समस्ति, प्रागेव सम्यग्दर्शनं द्वारभूतं धर्म्मानुष्ठानस्येति प्रतिपादयति सम्यग्दर्शनद्वारेण (१९५७) धर्मावगाह इति, पंच महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः, आचारादीनि दृष्टिबादपर्यन्तानि द्वादशांगानि, अर्हत्प्रणीत आगमः, तेनोपदिष्टं तपत्रं यस्य धर्म्मस्य, चरणलक्षणस्येत्यर्थः, गुप्तिसमितिपरिपालनं विशुद्धं व्यवस्थानमस्येति गुप्तिभिः समितभिश्च परिपालनं- परिरक्षणं विशुद्धं निर्मलं | व्यवस्थानं - स्वरूपावस्थानं यस्य स तथोक्तः, संसारो नरकादिचतुष्टयं तस्मान्निर्वाहको निस्सारकः, न चासावभावीभवति मुक्तावस्थायामित्याह - निःश्रेयसमापक इति, निश्चितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्त कर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः, यशोविभवादियुक्तो भगवान् परमर्षिरिति समधिगतसकलज्ञानः तीर्थकर
For Personal & Private Use Only
बोधिदुर्लभधर्मस्वाख्यातवे
।।४५८।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556