Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतत्त्वार्थ
हरि० ९ अध्या
आलोचनाद्याः
| विशिष्टोत्सर्गः-प्रणिधानपूर्वको निरोधः कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनर्थान्तरं प्रतिष्ठापनशब्दः
परित्यागार्थः। कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपीत्यादिना व्याचष्टे, कायोत्सर्गः प्रायश्चित्तं भवति, क?, अनेष|| णीयादिषु त्यक्तेषु, तत्रानेपणीयं उद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य कायोत्सर्गः कार्यः, आदिग्रहणाद् गमनागमनविहारश्रुतसावद्यस्वमदर्शननौसंतारणोच्चारप्रश्रवणाचरणपरिग्रहः,अशंकनीयविवेकेषु चेति संसक्तदधितक्रादिषु न प्राणिनो विवेक्तुं | शक्यन्ते इत्यशंकनीयविवेकेषु च, सक्तुप्रभृतिष्वपि तेषु कायोत्सर्ग एव प्रायश्चित्तं भवतीति । तपःप्रायश्चित्तविवक्षया आहतपो बाह्यमनशनादि (२०१-३) प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि बाह्य, वाह्याभ्यंतरता च केनचिदंशेनेत्यविरोधः, | | तत्रानशनग्रहणाच्चतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पंचमव्यवहाराच्च, तच्च मध्यमग्रहणाचाद्यभेदपरिग्रहोऽपि, तत्राद्याः पंचकदशकवि| शतिपंचविंशतेर्भेदा लघवो गुरवश्च, मासोऽपि च लघुर्गुरुः, चत्वारश्च मासा लघवो गुरवश्च, षट् च मासा लघुगुरुभेदाः, सर्वमेव | तत्तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽपि विशुद्ध्यर्थमुक्तं,सम्प्रति तु पंचमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरंति, तच निर्विकृत्याद्यष्टमभक्तांत, तच्चानेकातिचारविषयं यथा उद्देशकाध्ययनश्रुतस्कन्धागमेषु प्रमादिनः कालाविनयातिक| मादिपु क्रमेण निर्विकृत्याद्याचाम्लांतमनागादेपु आगाढेषु पुरस्तादौदिचतुर्थभक्तान्तमेवमादि,प्रकीर्णकं चानेकविधं चन्द्रप्रति
मादीत्युक्तलक्षणं बाह्ये तपसि प्राक् प्रपंचेनेति । छेदप्रायश्चित्तामिधित्सयवाह-छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः (२०१-४) | पर्यायाः, स च छेदः पर्यायस्य यथा यस्य तावद् दश वर्षाणि आरोपितमहाव्रतस्यापराधानुरूपः कदाचित् पंचकच्छेदः कदाचिद् दशक इत्यादि यावत् मासपरिमाणच्छेदो लघुर्गुरुर्वा एवं विधेन छेदेन छिद्यमानपर्यायः प्रव्रज्यादिवसमप्यवहरतीति, अस्य च विषयस्तपसा
॥४८॥
॥४८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556