SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ९ अध्या आलोचनाद्याः | विशिष्टोत्सर्गः-प्रणिधानपूर्वको निरोधः कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनर्थान्तरं प्रतिष्ठापनशब्दः परित्यागार्थः। कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपीत्यादिना व्याचष्टे, कायोत्सर्गः प्रायश्चित्तं भवति, क?, अनेष|| णीयादिषु त्यक्तेषु, तत्रानेपणीयं उद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य कायोत्सर्गः कार्यः, आदिग्रहणाद् गमनागमनविहारश्रुतसावद्यस्वमदर्शननौसंतारणोच्चारप्रश्रवणाचरणपरिग्रहः,अशंकनीयविवेकेषु चेति संसक्तदधितक्रादिषु न प्राणिनो विवेक्तुं | शक्यन्ते इत्यशंकनीयविवेकेषु च, सक्तुप्रभृतिष्वपि तेषु कायोत्सर्ग एव प्रायश्चित्तं भवतीति । तपःप्रायश्चित्तविवक्षया आहतपो बाह्यमनशनादि (२०१-३) प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि बाह्य, वाह्याभ्यंतरता च केनचिदंशेनेत्यविरोधः, | | तत्रानशनग्रहणाच्चतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पंचमव्यवहाराच्च, तच्च मध्यमग्रहणाचाद्यभेदपरिग्रहोऽपि, तत्राद्याः पंचकदशकवि| शतिपंचविंशतेर्भेदा लघवो गुरवश्च, मासोऽपि च लघुर्गुरुः, चत्वारश्च मासा लघवो गुरवश्च, षट् च मासा लघुगुरुभेदाः, सर्वमेव | तत्तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽपि विशुद्ध्यर्थमुक्तं,सम्प्रति तु पंचमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरंति, तच निर्विकृत्याद्यष्टमभक्तांत, तच्चानेकातिचारविषयं यथा उद्देशकाध्ययनश्रुतस्कन्धागमेषु प्रमादिनः कालाविनयातिक| मादिपु क्रमेण निर्विकृत्याद्याचाम्लांतमनागादेपु आगाढेषु पुरस्तादौदिचतुर्थभक्तान्तमेवमादि,प्रकीर्णकं चानेकविधं चन्द्रप्रति मादीत्युक्तलक्षणं बाह्ये तपसि प्राक् प्रपंचेनेति । छेदप्रायश्चित्तामिधित्सयवाह-छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः (२०१-४) | पर्यायाः, स च छेदः पर्यायस्य यथा यस्य तावद् दश वर्षाणि आरोपितमहाव्रतस्यापराधानुरूपः कदाचित् पंचकच्छेदः कदाचिद् दशक इत्यादि यावत् मासपरिमाणच्छेदो लघुर्गुरुर्वा एवं विधेन छेदेन छिद्यमानपर्यायः प्रव्रज्यादिवसमप्यवहरतीति, अस्य च विषयस्तपसा ॥४८॥ ॥४८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy