Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 511
________________ आर्तध्यान श्रीतस्वार्थ हरि० ९ अध्या० | कक्षायोपशमिकभेदात्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः, देशविरतः संयतासंयतः, हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावधयोगादनिवृत्तिरिति स एवासंयतः, सोविरतसम्यग्दृष्टि स्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्र| त्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् सर्वप्रत्याख्यानाभावाद्देशविरतिः श्रावकधर्मो द्वादशभेदः |संजायते, इदानीमप्रमत्तसंयतः, तसादसंख्येयानि विशोधिस्थानानि आरोहतः तृतीयकषायेषु प्रकर्षाप्रकर्षात् क्षयोपशमं गतेषु सर्वसावधयोगप्रत्यख्यानं विरतिर्भवति, उक्तं च-"देशविरतेरपि ततः स्थानाद्विशोधिमुत्तमा प्राप्य । स्थानान्तराणि पूर्वविधिनैव स | यात्यनेकानि ॥१॥क्षपयत्युपशमपति वा प्रत्याख्यानावृतः कषायांस्तान् । स ततो येन भवेत्तस्य विरमणे सर्वतोऽपि मतिः ॥२॥ | छेदोपस्थाप्यं वाऽऽवृत्तं सामायिक चरित्रं वा। स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् ।।३।।" तस्येदानी महाव्रतगुप्तिसमि|तियुक्तस्य कषायनिग्रहादिन्द्रियदमाच निरुद्धाश्रवस्य सूत्रानुसाराधतमानस्यापि मोहनीयकर्मानुभावात् संश्लेशाद्वा आन्तर्मुहूर्त्तात् परावर्त्तते, ततः संज्वलनकपायोदयादिन्द्रियविकथाप्रमादायोगदुष्प्रणिधानात्तत्कुशलेष्वनादराच प्रमत्तसंयतो भवति, तस्मात् संक्लेशाद्धायां वर्तमानः प्रमत्तसंयतः, एते च त्रयोऽपि आर्त्तध्यानस्वामिन इत्यर्थः,एतदार्तध्यानमविरतादीनामेव भवति,नाप्रमत्तसंयतानामित्यर्थः,तदेतदातं नातिसंक्लिष्ट कापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति ।। सम्प्रति रौद्रध्यानं सस्वामिकमभिधिन्सुराह __ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ९-३६ सूत्रम् ॥ हिंसाऽनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः, ततो द्वन्द्वसमासामिनिवृत्तात् प्रातिपदिकात्तादर्थे चतुर्थीबहुवचनं, हिंसाथ हिंसा१ सिद्धसेनीयायां किंचिद्नं साधं पृष्ठं व्यत्ययेन मुद्रितं, ततो रौद्रध्यानीयः पाठो धर्मध्याने, तत् विमृश्य वाच्यं सुधीभिः ॥४९॥ ॥४९॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556