Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 555
________________ | मगधादावार्यदेशे क्षत्रियादि मनुष्यजात। विक्ष्वाकुकुलादिषु शीलवत्सु सचेष्टेषु विद्या मुक्त्यनुगुणं ज्ञानं विनयोऽभ्युत्थानादिः श्रीतत्त्वार्थ- - १९ विभवो धनधान्यद्रविणसंपत् विषयाः शब्दादयः सर्वेषामेवैषां विस्तरः प्राचुर्यं विस्तर एव विभूतिः तद्युक्तेषु मनुष्येषु प्रत्याया - हरि० | तिमवाप्य जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्धं बोधिमवाप्नोतीति, ज्ञानचरणे बोधिशब्दवाच्ये ते समवाप्नोतीत्यर्थः । १० अध्या० | अनेनोक्तलक्षणेन कुशलाभ्यासानुबंधक्रमेण सुखपरम्परायुक्तेन परं प्रकर्षतस्त्रिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इत्येवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादाहितसंवरस्तपसा क्षपितसमस्तकर्म्मराशिः सिद्धयति सिद्धिक्षेत्रे इति । उक्तं च-एवं | संवरवर्मा पिनह्य सम्यक्त्ववाहमधिरूढः । सज्ज्ञानमहाचापो ध्यानादितपः सितपृषत्क्तैः ॥ १ ॥ संयमरणाजिरस्थं क्लेशचमूं संविधूय भव्या| त्मा । कर्म्मनृपं परिहत्यापवर्गराज्यश्रियं लभते || २ || एवं कम्र्मोदय जैर्भावैः कर्म्मक्षयोपशमजैश्च । संसारमुवाचान् सिद्धिं कर्म्मक्ष| यादेव || ३ || ज्ञानं सुमार्गदीपं सत्सम्यक्त्वं तद विप्रणाशाय । चारित्रमाश्रवघ्नं क्षपयति कर्माणि तु तपोऽग्निः ॥ ४ ॥ एतेन भवति सिद्धिः सिद्धथंगचतुष्टयेन जिनवचने । न तु संवररहितस्य च सा स्यान्न ज्ञानमात्रेण ||५|| इत्येकान्त समैकद्वीपं विविधं झषैकपातालं । अष्टग्राहं द्विश्यं चतुरावतं चतुष्कूलं || ६ || त्रिमहावर्त व्युदयं षड्गं चतुरशीतिनियतोम्मिं । संसारार्णवमात्मा नावा चतुरंगयोत्तरति ||७|| सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमप्यावेदयते, तत्रायं प्रव्राजकान्वयः- शिवश्रीर्नामवाचकः पितामहः संग्रहकारस्य, तस्य शिष्यो घोषनंदिक्षमणस्तस्यायं संग्रहकारः शिष्यः सम्प्रति वाचनाचार्यान्वयो-मुंडपादो नाम महावाचकः क्षमणः | सोऽस्य पितामहः संग्रहकारस्य, तस्य शिष्यो मूलनामा वाचकः, तस्यायं संग्रहकारकः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थान| माचष्टे न्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनाम्नि विहरता कौ भीषणिनेति गोत्राह्नानं स्वातितनये ॥५३५॥ Jain Education International For Personal & Private Use Only कर्मयुद्धं सिद्धिश्व प्रशस्तिः ॥५३५|| www.jainelibrary.org

Loading...

Page Navigation
1 ... 553 554 555 556