Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 554
________________ श्रीतस्वार्थ हरि० १०अध्या० பொPRINTHIANANDHinger सिद्धिसुखपरम्पराफलं | सुप्तवदिच्छति निर्वृति, तदेतदयुक्तं, योगवचात्तथ्यसुखानुशयाच्च, अनुशयप्रकर्षापकर्षत्वं ॥२८॥ श्रमेत्यदि, श्रमः खेदः क्लमो ग्लानिः मदो मद्यपानादिजनितः व्याधिः ज्वरादिः मदनः कामासेवनमेभ्यश्च सुस्वापसुप्तत्वस्य संभवात् रत्यरतिभयशोकादिमों-| हस्तस्मात् सुसुप्तत्वसंभवः दर्शननं दर्शनावरणं कर्म तस्य विपाकादुदयात् सुस्वममिति,न चैतानि कारणानि मुक्तात्मनां संभवंति | ॥२९॥ लोक इत्यादि, मोक्षसुखादृशोऽर्थः सकलेऽपि लोके न क्वचिदस्ति ततोऽनुपमं तत् ॥३०॥ लिंगेत्यादि, नाप्युपमानं तत्र क्रमते, सादृश्याभावात् , सादृश्याख्यं लिंगं नास्ति मोक्षसुखस्य, नाप्यनुमानस्य मुक्तसुखं गोचरीभवति, यसात्तस्य प्रामाण्यं लिङ्गप्रसिद्धः कारणात् ,पक्षधर्मान्वयव्यतिरेकवल्लिंग,न चास्ति तादृग् मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेय।।३१।। प्रत्यक्षमित्यादि, | अर्हतां सर्वज्ञानामेव तत् प्रत्यक्षं, प्रत्यक्षीकृत्य च तैयथावद्भाषितं, व्यपेतरागद्वेषमोहः श्रद्धयवाक्यैः सर्वज्ञैरेवैतदाख्यातं, अतः | | सर्वज्ञप्रणीतागमप्रामाण्यात्तदस्तीति गृह्यते, प्रज्ञासामर्थ्यान्न छद्मस्थपरीक्षया आगमव्यतिरिक्तैः प्रमाणेः, छद्मस्थप्रत्यक्षादिभिः | परीक्ष्यमाणं न जातुचिदुपलभ्यत इति।।३२।एवमनुपममध्यावाधं शाश्वतं स्वाभाविकं मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः।। यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तनिःमरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसंपन्नो भिक्षुर्मोक्षाय घटमानो | मोक्षार्थ कृतोत्साहो दुष्षमाकालदोषात् परिपेलवकीलिकासेवार्तसंहननदोपादनेकापायाल्पायुर्दोषाचाल्पशक्तिरतीव स्तोकवीर्यः | कर्मणांच मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावात् अकृतार्थ एव अक्षपितकर्माष्टक एवोपमरते कालं करोति, स खलु उपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतस्मिन् कल्पे विमाने देवत्वायोपपद्यते,तत्र मौधर्मादिषु कल्पेषु विमानेषु वा सुकृतं कर्म पुण्यं तस्य फलं विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो| MineerintineethiHIDiwing ॥५३४॥ a | ॥५३४|| Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556