Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतचार्थ
हरि० ९अध्या०
द्वयोरेव दर्शिता भाष्यकारेण, अपरे ब्रवते-कषायकुशीलाः सामायिकादिषु चतुर्षु संयमेषु यथाख्यातसंयमरहितेषु वर्त्तते,यथाहआद्यचारित्रयोराद्यास्त्रय एकश्चतुर्ध्वपि। निर्ग्रन्थस्नातको नित्यं, यथाख्यातचरित्रिणौ ॥१॥ प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि IPeपुलाकादिषु |पंचभेद एव, निर्ग्रन्थः लातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्तते,उपशान्तक्षीणमोहा निर्ग्रन्थाः, स्नातकः सयोगायोगकेव- संयमादि
विकल्पा: | लीति । निर्ग्रन्थोऽपि पंचभेद एव, प्रथमसमयाप्रथमसमयचरमसमयाचरमसमयसूक्ष्मभेदतः, स्नातकोऽपि पंचप्रकारः अच्छविरशबलोऽकाशोऽपरिश्रावी संशुद्धज्ञानदर्शनधरश्चेति,छविः-शरीरं तदभावात् काययोगनिरोधे सत्यच्छविर्भवति,निरतिचारत्वादशबलः, क्षपितकर्मत्वादकौशः, निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी,ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति १॥ श्रुतं । |कियत् कस्येत्याह-पुलाकबकुशप्रतिसेवनाकुशीला अभिमाक्षराणि दश पूर्वाणि धारयति, अभिन्न अन्यूनमेकेनाप्यक्षरेण, अन्यूनानि दश पूर्वाणीत्यर्थः, उत्कर्षेण कषायकुशीलो निर्ग्रन्थश्चतुर्दशपूर्वधर उत्कर्षतः, जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावत् श्रुतं, बकुशकुशीलनिग्रंथानामष्टौ प्रवचनमातरः, श्रुतरहितः केवलीति, आगमस्त्वन्यथा व्यवस्थितः “पुलाए णं भंते ! केवइयं सुयं अहिजेजा ?, गोयमाः जहण्णेणं नवमस्स पुवस्स तइयमाचारवत्थु, उक्कोसेणं नव पुवाई संपुन्नाई,बकुसपडिसेवणाकुसीला जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं नव पुबाई अहिज्जेजा,कसायकुसीलनियंठा जहण्णणं अट्ठ परयणमायाओ,उक्कोसेणं , चउदस पुबाई अहिजेजा।" सम्प्रति प्रतिसेवनामाश्रित्योच्यते-प्रतिसेवना पंचानामित्यादि (२१०-१३) मूलगुणाः प्राणा- | |तिपातनिवृत्त्यादयः पंच क्षपाभोजनविरतिश्च, तान् परेणाभियुज्यमानः सेवते, परामियोगादित्यस्यैव व्याख्या बलात्कारेणेति, ७॥ |परेणाभियुक्तः-प्रेरितो यदा भवति तदा प्रवर्त्तते,न स्वरसत एव, अपरस्तु राजादिभिर्बलात्कारेण प्रवर्यते, तदेवमन्यतमं मूलगुणं |*
॥५०७||
For Personal Private Use Only
Loading... Page Navigation 1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556