SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ९अध्या० द्वयोरेव दर्शिता भाष्यकारेण, अपरे ब्रवते-कषायकुशीलाः सामायिकादिषु चतुर्षु संयमेषु यथाख्यातसंयमरहितेषु वर्त्तते,यथाहआद्यचारित्रयोराद्यास्त्रय एकश्चतुर्ध्वपि। निर्ग्रन्थस्नातको नित्यं, यथाख्यातचरित्रिणौ ॥१॥ प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि IPeपुलाकादिषु |पंचभेद एव, निर्ग्रन्थः लातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्तते,उपशान्तक्षीणमोहा निर्ग्रन्थाः, स्नातकः सयोगायोगकेव- संयमादि विकल्पा: | लीति । निर्ग्रन्थोऽपि पंचभेद एव, प्रथमसमयाप्रथमसमयचरमसमयाचरमसमयसूक्ष्मभेदतः, स्नातकोऽपि पंचप्रकारः अच्छविरशबलोऽकाशोऽपरिश्रावी संशुद्धज्ञानदर्शनधरश्चेति,छविः-शरीरं तदभावात् काययोगनिरोधे सत्यच्छविर्भवति,निरतिचारत्वादशबलः, क्षपितकर्मत्वादकौशः, निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी,ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति १॥ श्रुतं । |कियत् कस्येत्याह-पुलाकबकुशप्रतिसेवनाकुशीला अभिमाक्षराणि दश पूर्वाणि धारयति, अभिन्न अन्यूनमेकेनाप्यक्षरेण, अन्यूनानि दश पूर्वाणीत्यर्थः, उत्कर्षेण कषायकुशीलो निर्ग्रन्थश्चतुर्दशपूर्वधर उत्कर्षतः, जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावत् श्रुतं, बकुशकुशीलनिग्रंथानामष्टौ प्रवचनमातरः, श्रुतरहितः केवलीति, आगमस्त्वन्यथा व्यवस्थितः “पुलाए णं भंते ! केवइयं सुयं अहिजेजा ?, गोयमाः जहण्णेणं नवमस्स पुवस्स तइयमाचारवत्थु, उक्कोसेणं नव पुवाई संपुन्नाई,बकुसपडिसेवणाकुसीला जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं नव पुबाई अहिज्जेजा,कसायकुसीलनियंठा जहण्णणं अट्ठ परयणमायाओ,उक्कोसेणं , चउदस पुबाई अहिजेजा।" सम्प्रति प्रतिसेवनामाश्रित्योच्यते-प्रतिसेवना पंचानामित्यादि (२१०-१३) मूलगुणाः प्राणा- | |तिपातनिवृत्त्यादयः पंच क्षपाभोजनविरतिश्च, तान् परेणाभियुज्यमानः सेवते, परामियोगादित्यस्यैव व्याख्या बलात्कारेणेति, ७॥ |परेणाभियुक्तः-प्रेरितो यदा भवति तदा प्रवर्त्तते,न स्वरसत एव, अपरस्तु राजादिभिर्बलात्कारेण प्रवर्यते, तदेवमन्यतमं मूलगुणं |* ॥५०७|| For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy