________________
श्रीतत्वार्थ
हरि०
९ अध्या०
॥४॥तेजसशरीरबंधोऽपि तस्य नामक्षयात् क्षयं याति । औदारिकबंधोऽपि क्षीयतयायुःक्षयात्तस्य॥५॥एवमशेषकर्मक्षयान्मोक्षो भवति। एवमेते पुलाकादयोऽभिहिताः पंच निर्ग्रन्थाः स्वरूपतः, अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याह
पुलाकादिषु
संयमादिसंयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपातस्थानविकल्पतः साध्याः ॥९-५० ॥ सूत्रम् ॥
विकल्पाः __ संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वाः विकल्पशब्देन सह समस्यन्ते, संयमादीनां विकल्पाः एते इत्यादि (२१०-३) भाष्य, | एते इत्युक्तलक्षणाः पुलाकादयः पंच निर्ग्रन्थाः एभिरष्टाभिरनुगमविकल्पैः अनुगमनमनुसरणमनुयोगद्वाराण्यार्पणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवंति, तद्यथेत्यादिना तान् संयमादिविकल्पानुपन्यस्यति, संयम इति प्रथमोऽनुगमविकल्पः, पुलाकादीनां पंचानां निम्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति, वर्त्तत इति अज्ञप्रश्नः?, उच्यते, यो यस्मिन् संयमादौ भवति स तथा भण्यते, पुलाकबकुशप्रतिसेवनाकुशीलास्त्रयो निग्रन्थाः संयमद्वये वर्तन्ते, सामायिकसंयमे छेदोपस्थाप्यसंयमे च, | तत्र पुलाकः पंचभेदः ज्ञानदर्शनचरणलिंगसूक्ष्माख्यः,स्खलितादिभिर्ज्ञानपुलाकः कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः यथोक्तलिंगाधिकग्रहणाल्लिंगपुलाकः किंचित्प्रमादात् सूक्ष्मपुलाकः, एष पंचप्रकारोऽपि संयमद्वये वर्तते, बकुशोऽपि आभोगानाभोगसंवृत्तावृत्तसूक्ष्मयकुशभेदात् पंचप्रकारः, तत्र संचित्यकारी आभोगवकुशः, सहसाकारी अनभोगवकुशः, प्रच्छन्नः संवृत्तवकुशः, प्रकटकारी असंवृत्तबकुशः, किंचित्प्रमादी सूक्ष्मबकुशः, प्रतिसेवनाकुशीलोऽपि ज्ञानदर्शनचरणलिंगसूक्ष्मभेदेन पंचप्रकारः, ज्ञानाद्यतिचारप्रतिसेवनादिति, प्रतिसेवना, प्रतिगता सेवना, प्रतिगता सेवना क्रियायोगात्यये सत्युपसर्गसं- IN५०६॥ ज्ञाऽभावात् षत्वाभावोऽतिसिक्तवत् , अन्ये तु प्रतिषेवणामेवेच्छंति, कषायकुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसंयमे च
।।५०६॥
Jan Education n
ational
For Personal Private Use Only