________________
श्रीतत्वार्थ-|
हरि० ९ अध्या०
भवतां कथंचित् केनचित् प्रकारेण अल्पेनापि हेतुना कुड्याकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना संज्वलनकषायाः क्रोधादयः उदीर्यन्ते उदयमुपनीयंते किंचिदेव कारणमासाद्योदयं गच्छति ते कषायकुशीलाः। सम्प्रति निर्ग्रन्थनिरूपणार्थमाह-ये वीतरा- पुलाकादयः गच्छद्मस्था इत्यादि (२०९-१४) उपशमितक्षपितमोहजाला विगताशेषरागद्वेपमोहत्वात् एकादशद्वादशगुणस्थानवर्तिनः ते वीतरागच्छद्मस्थाः,छद्म-आवरणं तत्र स्थिताः सावरणज्ञानाः छद्मस्था ईर्यापथप्राप्ताः अकषायत्वादुपशान्तक्षीणकषायाश्च एकसमयावस्थमीर्यापथकर्म बनंति, इर्या व्यापारो योग इति पर्यायाः, तस्य व्यापारस्य विषयः पंथाः, स च संयमः सप्तदशप्रकारः, एनमेवार्थ स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः, योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इत्यर्थः, यावत्ते विकीर्णमोहग्रन्थय इत्यर्थः, सयोगाः त्रयोदशगुणस्थानवर्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिमलपटलाः इत्यर्थः, शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः, ते च केवलिनो विहृत्य कंचित् कालं ततोऽकृतसमुद्घाताः समुद्घाताद्वा निवृत्ताः क्रमेण योगाविरुंधति,स चोक्त एव क्रमः प्राक, निरुद्धयोगाश्च व्युपरतक्रियाऽनिवर्तिना ध्यानेन शेषान् कमांशान् क्षपयति, यथोक्तं-"ध्यानं ह्यभिसंधानं ध्यानेन च कर्मणो भवति मोक्षः । ध्यानेन ततः क्षपयति | कर्माणि स पंचमात्रेण ॥१॥ पंच मात्रा यत्र ध्यान इति, एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते, तदा चेमाः प्रकृतीः क्षपयति| स्पर्शरसवर्णगंधानादेयनिर्माणदेहनामानि । [पंच] संहननांगोपांगानि तथा संस्थाननामानि ॥१॥ नृसुरगतिप्रायोग्ये सुरगत्युपधा-|H तमगुरुलघुता च । उच्छासपराघातं पर्याप्तशुभाशुभानि तथा ॥२॥ दुर्भगदुःस्वरसुस्वरनीचैर्गोत्रस्थिरास्थिराणि तथा । अन्यतरवेद्यख
U||५०५॥ गतिप्रत्येकशरीरमयशश्च ॥३।। प्रकृतय एता द्विचरमसमये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्याश्च ततः प्रकृतीः स चरमांते
S
॥५.५॥
Jan Education International
For Personal Private Use Only