Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
I
श्रीतत्त्वार्थ
हरि० १०अध्या०
क्षपकपरिणामावस्थस्येति अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणा| दिप्रहाणे च संसारबीजबंधनं मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति, ततश्च फलबन्धनं वेदनीयादिचतुष्कं तन्मो
श्लोकैः
शास्त्रार्थोप| क्षणापेक्षस्तेनापि वेदनीयादिनाऽशेषबंधनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकम्र्मेन्धनो निरिंधन इवाग्निः पूर्वोपात्तो भवः ।
संहारः औदारिकादिकायस्तद्वियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमाह्लादमुपगतः कारणापेक्षं | संसारसुखमतीत्य आत्यंतिकं साद्यपर्यवसानं एकांतिकं एकान्तेनैव भवति, न कदाचिन्न भवतीत्यर्थः, निरुपममिति नास्तीह किंचित्तस्योपमानं तत्सदृशमिति, निरतिशयमिति नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते,सर्वमुक्तानां तुल्यत्वात् , नित्यमिति ध्रुवं कूटस्थमविकारी निवार्णसुखमवामोतीति ।। ___सत्कारार्हः सततं निरुत्सुको निर्भयो विशुद्धिमदः(यः)। निष्प्रणयो निर्द्वषो निर्द्वन्द्वो नीरजातितनुः।।१।। संसाराग्नि निर्वाप्य दहतं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो गतजातिजरामरणरोगः॥२॥ व्याबाधाभावाच्च स सर्वज्ञत्वाच्च भवति परमसुखी । व्याबाधाभावो नु स्वस्थस्य ज्ञस्य ननु प्रसुखं ॥३॥ अनुपमममेयमव्ययमनघं शिवमजरमरुजमभयषम्। एकान्तिकमात्यंतिकमव्याबाधं मुखं ह्येतत् ॥४॥ त्रिष्वपि कालेषु सुखानि यानि तिर्यङ्मनुष्यदेवानाम् । सर्वाणि तानिन समानि तस्य मात्रामुखेनापि ॥५॥ तानि हि रागोद्रेकाद्वयाबाधापूर्वकाणि च सुखानि। न ह्यासीद् रागमपविध्य तत्र किंचित् सुखमपृक्तं ॥६॥ एवं क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानः। आत्यन्तिकैः स युक्तो निर्द्वन्द्वेनापि च सुखेन ।।७।। सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति. द्विद्धं सुबद्धं भवतीति ।। PR||५३०॥
एवमित्यादि ॥१॥ उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य विषयसुखवितृष्णस्य भृशमात्मनः स्थगि
॥५३०॥
Jan Education n
ational
For Personal & Private Use Only
Loading... Page Navigation 1 ... 548 549 550 551 552 553 554 555 556