Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री तत्वार्थ हरि० १० अध्या०
॥५१५॥
Jain Education International
कृत्स्नकर्मक्षयो मोक्षः ॥ १० - ३ ।। सूत्रम् ॥
कृत्स्नं-संपूर्णं निरवशेषं कर्म्म ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिशब्दवाच्यं, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतं एतत् कृत्स्नं कर्म्म तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्म्मराशेर्मोक्षः, आत्मनः आत्मन्यवस्थानमिति । कृत्स्न| कर्मक्षयलक्षणो मोक्षो भवतीत्यादि (२१४-१२) भाष्यं, कृत्स्नकर्म्मक्षयो लक्षणं यस्य मोक्षस्य, कृत्स्नकर्म्मविमुक्त्याऽऽत्मा मुक्त इति लक्ष्यते, स एव मोक्षः, सकलकर्म्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव, परिणामिनो निरन्वयनाशे न उपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा, न सोऽभावः, स च कर्म्मणामपगमः क्रमेणामुनेति | दर्शयति पूर्व क्षीणानि चत्वारि कम्र्माणीति केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणि क्षीणानि, ततः केवलज्ञानोत्पत्तिः, पञ्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवतीति, केवलज्ञानोत्पादात् | पश्चाद्वेदमीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि, एवं तत्क्षयसमकालमेव सकलकर्मक्षयतुल्यकालमेवौ| दारिकशरीर वियुक्तस्यास्य मनुष्यजन्मनः प्रहाणमिति छेदः बंधहेत्वभावाच्चोत्तरस्य जन्मनोऽप्रादुर्भावः एषाऽवस्थेति | पूर्वजन्मोच्छेद उत्तरजन्माप्रादुर्भावः केवली आत्मा ज्ञानाद्युपयोगलक्षणः शुद्ध इत्येषाऽवस्था कृत्स्नकर्म्मक्षयलक्षणा मोक्ष इत्याख्यायते, | अवस्थाग्रहणमात्माऽनुच्छेदप्रतिपादनार्थमिति । किंचान्यदित्यनेन (२१४-१६) तस्यामवस्थायां प्रष्टव्यशेषमाशंकते, "औपशमिकक्षायिकौ भावौ मिश्रश्र जीवस्य स्वतश्वमौदयिकपारिणामिको चे" त्युक्तं जीवस्वतच्वं, तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैत्र, आहोश्वित् किंचित् परिशदति किंचिन्नेति सन्देहापनयनार्थमाह सूत्रकारः
For Personal & Private Use Only
मोक्षस्वरूपं
।।५१५ ।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556