SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थ हरि० १० अध्या० ॥५१५॥ Jain Education International कृत्स्नकर्मक्षयो मोक्षः ॥ १० - ३ ।। सूत्रम् ॥ कृत्स्नं-संपूर्णं निरवशेषं कर्म्म ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिशब्दवाच्यं, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतं एतत् कृत्स्नं कर्म्म तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्म्मराशेर्मोक्षः, आत्मनः आत्मन्यवस्थानमिति । कृत्स्न| कर्मक्षयलक्षणो मोक्षो भवतीत्यादि (२१४-१२) भाष्यं, कृत्स्नकर्म्मक्षयो लक्षणं यस्य मोक्षस्य, कृत्स्नकर्म्मविमुक्त्याऽऽत्मा मुक्त इति लक्ष्यते, स एव मोक्षः, सकलकर्म्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव, परिणामिनो निरन्वयनाशे न उपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा, न सोऽभावः, स च कर्म्मणामपगमः क्रमेणामुनेति | दर्शयति पूर्व क्षीणानि चत्वारि कम्र्माणीति केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणि क्षीणानि, ततः केवलज्ञानोत्पत्तिः, पञ्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवतीति, केवलज्ञानोत्पादात् | पश्चाद्वेदमीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि, एवं तत्क्षयसमकालमेव सकलकर्मक्षयतुल्यकालमेवौ| दारिकशरीर वियुक्तस्यास्य मनुष्यजन्मनः प्रहाणमिति छेदः बंधहेत्वभावाच्चोत्तरस्य जन्मनोऽप्रादुर्भावः एषाऽवस्थेति | पूर्वजन्मोच्छेद उत्तरजन्माप्रादुर्भावः केवली आत्मा ज्ञानाद्युपयोगलक्षणः शुद्ध इत्येषाऽवस्था कृत्स्नकर्म्मक्षयलक्षणा मोक्ष इत्याख्यायते, | अवस्थाग्रहणमात्माऽनुच्छेदप्रतिपादनार्थमिति । किंचान्यदित्यनेन (२१४-१६) तस्यामवस्थायां प्रष्टव्यशेषमाशंकते, "औपशमिकक्षायिकौ भावौ मिश्रश्र जीवस्य स्वतश्वमौदयिकपारिणामिको चे" त्युक्तं जीवस्वतच्वं, तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैत्र, आहोश्वित् किंचित् परिशदति किंचिन्नेति सन्देहापनयनार्थमाह सूत्रकारः For Personal & Private Use Only मोक्षस्वरूपं ।।५१५ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy