________________
C
श्रीतवार्थ
हरि० १०अध्या
मोक्षे सम्यक्त्वाद्यवस्थितिः
औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥१०-४ ॥ सूत्रम् ॥ उपशमे भवं औपशमिकं उपशमेन वा निवृत्तः,स आदिर्येषां ते इमे औपशामिकादयः, आदिग्रहणेन क्षायिकक्षायोपशमिकौदयिकपारिणामिकाः गृहीताः, सेत्स्यल्लक्षणं भव्यत्वं, औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि एषामभावः औपशमिकादिभव्यत्वाभावः, चशब्दः समुच्चये, औपशमिकाद्यभावाद्भव्यत्वाभावाच मुक्तात्मा भवति, किं सर्वेषामौपशमिकादीनामभावो?, नेत्युच्यते, अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न संति, औपशमिकक्षायोपशमिकौदयिकाः सर्वथा न संत्येव, क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः, केवलज्ञानं केवलदर्शनं सिद्धत्वं च संभवति मुक्तात्मनि, पारिणामिके तु भावे भव्यत्वमेकमेव केवलं सिद्धत्वे न संभवति,नन्वौपशमिकादिग्रहणात् भव्यत्वं संगृहीतमेव, किमर्थ पुनर्भव्यत्वग्रहणं?, उच्यते, पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः प्रायेण संतीति ज्ञापनार्थ, अस्तित्वगुणवत्चासर्व-| गतत्वानादित्वासंख्येयप्रदेशवचनित्यत्वादयः सन्त्येव, एतदनुसारि भाष्यं-औपशमिकेत्यादि (२१५-९) औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः, एषामभावाव्यत्वाभावाच्च मोक्षः, अन्यत्र एभ्यः इत्युपपदलक्षणा पंचमी, दर्शनसप्तकक्षयात् क्षायिक केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं, अशेषदर्शनावरणक्षयात् क्षायिक केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्याः तस्मान्मुक्तस्यापि भवंतीति । स पुनर्मुक्तात्मा यत्र मुक्तः | समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टो जगाद- .
तदनन्तरमूवं गच्छत्यालोकान्तात् ।। १०.५।। सूत्रम् ॥
HOTIWANDHINDHIHITHO HINDIMECHOES
॥५१६॥
|॥५१६॥
Jan Education
emanal
For Personel Private Use Only