________________
सिद्धगतिः
श्रीतचार्थ
हरि० १०अध्या०
तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते, औपशमिकादिभव्यत्वाभावो वा, तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु-| सततमेव मुक्तः सन्नूर्व गच्छत्यूर्ध्वमेव गच्छति, कीयती भूमिमित्याह-आलोकान्तात् पंचास्तिकायसमुदायो लोकस्तस्यान्तो -मस्तकः तत्रेषत्प्राग्भारा नाम क्षोणी तुहिनशकलधवला उत्तानकच्छत्राकृतिस्तस्याश्वोपरि योजनमेकं लोकः तस्याधस्तनक्रोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुत्रिंशतीमिते धनुविभागाधिके लोकान्तशब्दो वर्त्तते, आडो मर्यादायां प्रयोगः, आ उदकांतादिति यथा, एवमालोकान्तात् , न गच्छति ततः परमिति, तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तेजसकार्मणयोः क्षयः, सिद्ध्यमानगतिरिति ताच्छील्ये चानः, सेधनशील एवासौ,नान्यशीलः, अवश्यमेव सिद्ध्यति, | तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्तिर्लोकान्तावस्थानं एतत्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण | युगपद्भवति, गतिश्च समयान्तरं प्रदेशान्तरं चास्पृशंती भवति, तस्याचिन्त्यसामर्थ्यात् चैतत् सर्व युगपद्भवति देहवियोगादि, | केचिदाहुः-कर्मक्षयकालश्च देहवियोगादिसमकाल एव कथं भवतीति?, तद्यथेत्यादिना (२१५-९) दृष्टान्तयति प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते, प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयादा चेष्टारूपपरिणामः आदिग्रहणात् स्वाभाविको वा परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्य तस्माजातस्य गतिकर्मणो गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्ति| कालः कार्यारंभश्च कारणविनाशश्च पर्यायान्तरेण व्यणुकादिकार्यारंभः पूर्वपर्यायविनाशः तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकालाः, एकसमयेन भवंतीत्यर्थः, उत्पाद विगमस्थानवदिति सुज्ञानं । 'अत्राहे त्यादिना (२१५-११) सूत्रं सम्बभाति, प्रक्षीणकर्मण इति, क्षपितनिरवशेषकर्मराशेर्निराश्रवस्य निरस्तकायवाङ्मनोयोगस्य कथं केन प्रकारेण गतिः लोकान्त
॥५१७||
।।५१७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org