Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
सिद्धगते
श्रीतत्त्वार्थ
हरि० १० अध्या
ईतव:
प्राप्तिर्भवति, अयं मन्यते-योगामावात् स सदा निष्क्रियो, गतिस्तु क्रिया, अतो लोकान्तगमनमनुपपत्रमिति, अनोच्यते यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते
पूर्वप्रयोगावसंगत्वाबंधच्छेदात्तथागतिपरिणामाच्च तद्गतिः ॥१०-६॥ सूत्रम् ॥ उपरतकर्तृव्यापारो यः कालस्तस्मात् पूर्व-प्रथमं कर्तृव्यापारः कर्तृक्रिया तस्याःप्रयोगः प्रयुक्तिः पूर्वप्रयोगः तस्मात् पूर्वप्रयोगात् पूर्वव्यापारात् यथा कुलालचक्रं हस्तदण्डचक्रसंयुक्तसंयोगात् हस्तेन दण्डः संयुक्तः दण्डेन चक्रं संयुक्तमिति संयुक्तसंयोगस्तस्मात् पुरुषप्रयत्नतश्च पुरुषपरिस्पन्दाचाविद्धं वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगाद्धस्तादिव्यापारप्रेरणात् भ्रमत्येव आसंस्कारपरिक्षयात् , संस्कारोऽनवरतक्रियाप्रबन्धः, दृष्टान्तेन दान्तिकमर्थ समीकुर्वनाह-एवं यः पूर्वमस्येत्यादि । (२१६-१)योगनिरोधामिमुखस्य यत् कर्मणा यःप्रयोगो जनितः सक्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वाद्योगाभावेऽपि गतिहेतुर्भवति तेन हेतुना क्रियते गतिरित्यर्थः, किंचान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति-असंगत्वादिति (२१६-४) संगत्वं स्खलितत्वमित्यर्थः, न संगत्वमसंगत्वमस्खलितचं तस्मात् असंगत्वात् सिद्धस्योवं गतिः सिद्धा, न हि स्वाभाविक्या गत्या गच्छन्नूर्व क्वचित् स्खलनमासादयति,एतद्व्याख्यानायाह-पुद्गलानामित्यादि,पूरणाद् गलनाच्च पुद्गलाः-परमाणुप्रभृतयःजीवास्तु ज्ञानदर्शनोपयोगलक्षणाः,एषां पुद्गलजीवानां गतिमत्त्वमुक्तं,नान्येषां धर्माधर्माकाशद्रव्याणां, तत्र स्वभावत एवाधोऽधस्तात् गौरवं भारिकत्वं परिणामविशेषः गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवा इति, जीवानामपि तादृशं गौरव-परिणामविशेषो लाघवं येषामिति, एवंविधं तेषां गौरवं विशिष्टं येनोवं गच्छंति, एष पुद्गलानां जीवानां च स्वभावः,
॥५१८॥
॥५१८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556