Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 534
________________ मिथ्यादर्शनाभावः, नाप्यविरतिप्रमादकपायप्रत्ययो दर्शनावरणमोहक्षयाद्, योगनिरोधकाले च योगनिमित्तोऽप्यपैति बंध इति, इत्थं श्रीतत्त्वार्थबंधहेत्वभावे सति निर्जरणमुपचितस्य कर्मणः अन्त्यकाले समस्ति,सम्यग्दर्शनज्ञानचरणानां चोत्पत्तिः प्रागभिहिता, तामुपलक्षयति कर्मक्षयहेतू हरि० १० अध्या०४ | 'तस्वार्थश्रद्धानं सम्यग्दर्शन' 'तनिसर्गादधिगमाद्वेत्युक्तैव, न पुनरपि व्याख्येयेति, अथवा सर्वमेतत् पूर्वमुक्तं, एवं संवरसंघृतस्येत्यादि, एवमुक्तेन प्रकारेण बंधहेत्वसंभवः संवरस्तेन संवृतस्य स्थगितसकलाश्रवद्वारस्य महात्मनः परमातिशयसंपन्नस्य सम्यग्व्यायामस्य सम्यक्रियानुष्ठायिनः छमस्थस्य सयोगकेवलिनश्च निरुद्धसकलयोगस्य अभिनवस्यापूर्वस्य कर्मण उपचयो बंधो न भवति पूर्वोपचितस्य प्राग्बद्धस्य क्षयो यथोक्तैस्तपोऽनुष्ठानादिमिर्निर्जराहेतुभिरात्यंतिको घातिकर्मक्षयः, | इतरस्तु भवधारणीयक्षयः, ततो घातिकर्मक्षयसमनन्तरमेव द्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति भूचयति, परं प्रकटमैश्वर्य विभूतिः परं असाधारणं वा ईश्वरत्वमैश्वर्यमनन्तपर्यवसानत्वादनुच्छेदित्वात् केवलमसहायं मत्यादिरहितं ज्ञानदर्शनं ।। चानन्तज्ञानमनन्तदर्शनं च प्राप्य लब्ध्वा शुद्धो धौतापनीतसकलकर्ममलः बुद्ध्यत इति बुद्धो ज्ञानस्वभाव इत्यर्थः,केवलज्ञानेन सर्व जानीत इति सर्वज्ञः केवलदर्शनेन सर्व पश्यतीति सर्वदर्शी रागद्वेषमोहजयाजिनः केवली केबलज्ञानदर्शनसंभवात् ततः उत्पनकेवलज्ञानः प्रतनूनि स्वकल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्यायुर्नामगोत्राणि, स| चायुष्कस्य कर्मणः संस्कारवशात् प्रतिक्षणमनुवृत्तिः संस्कारस्तदशाद्विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदा॥५१४॥ चिद् याति विहरति, तिष्ठन्नपि च विविधं रजो हरतीति, ततोऽस्य विहरत उक्तेन विधिना आयुष्कर्मपरिसमाप्तावितराण्यपि ॥५१४॥ त्रीणि कर्माणि क्षपयंतीत्यतः Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556