Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 532
________________ ॥श्रीतत्त्वार्थस्य हारिभद्रीयवृत्तौ दशमोऽध्यायः॥ श्रीनचार्थ हरि० १०अध्या० केवलोत्पत्तिः निर्दिष्टे संवरनिर्जरे, आश्रवनिरोधः संवरः, तपसा निर्जरा चेति, सम्प्रति तु फलं मोक्षं वक्ष्यामः, स च केवलज्ञानोत्पत्तिम|न्तरेण न जातुचिदप्यभवद्भवति भविष्यति चेत्यतः केवलज्ञानोत्पत्तिमेव तावद्वक्ष्यामः मोहक्षयात् ज्ञानदर्शनावरणांतरायक्षयाच केवलम् ॥१०-१॥ सूत्रम् ॥ क्रमं चानेन सूत्रेण दर्शयति, मोहनान्मोहः अष्टाविंशतिभेदः पूर्वोक्तस्तस्य क्षयो-निरवशेषतः परिशटनमात्मप्रदेशेभ्यः, क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणांतरायेषु च पंचपंचभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु, केवलं ज्ञानं केवलं च दर्शनमाविर्भवति, समस्तद्रव्यपर्यायपरिच्छेदि घातिकर्मविगमादुत्पद्यते, यथोक्तं-"तस्य हि तस्मिन् समये केवलमुत्पद्यते | गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसंक्षयाच्छुद्धं ॥१॥ चित्रं चित्रपटनिभं त्रिकालसहितं ततः स लोकमिमं । पश्यति युगपत् सर्व सालोकं सर्वभावज्ञः ॥२॥" आसामेतत्सूत्रनिर्दिष्टाना, कियतीनां ?, चतसृणां कर्मप्रकृतीनां कर्मस्वभावानां मोहन| माच्छादनं विघ्नकारित्वं चेति स्वभावाः क्षयो निःशेषशाटः केवलस्य ज्ञानस्य दर्शनस्य हेतुः कारणं निमित्तमिति पर्यायाः, फलस्य साधने योग्यः पदार्थो हेतुरिति परिभापितं, अभावोऽपि हि निमित्तं भवति, यथा विपक्षे हेतुस्भावद्वारेण गमकः, तत्क्षयात् तृत्पद्यत इति घातिकर्मक्षयाजायत इत्यर्थः, ततस्तद्विगमलक्षणो गुणो हेतुः, 'विभाषा गुणेऽस्त्रिया'मिति हेतौ पंचमीनिदेशो, मोहक्षयादिति सापेक्षं, कर्मचतुष्टये व्यपेते निरावरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति, तस्य च सापेक्ष ॥५१२॥ ॥५१२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556