Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 533
________________ श्रीतत्त्वार्थ हरि० । १०अध्या० कर्मविगमो निमित्तं, किरणमालिन इव अतिबहलाभ्रपटलाच्छादितमंडलस्य संकुचितकिरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद्विकसति ज्ञानं दर्शनं च, मोहक्षयादिपृथक्करणं प्रतिविशिष्टक्रमप्रसिद्ध्यर्थ, किमर्थ क्रमप्रसिद्धिः, यथा कर्मक्षयहेतू गम्येत प्राङ् मोहनीयक्षय एव सर्वस्य मुमुक्षोः,ततश्च महामोहसागरमुत्तीर्यान्तर्मुहूर्त्तमात्रं विश्राम्यति, ततस्तस्य ज्ञानदर्शना|वरणान्तरायक्षयो युगपदेव भवति, तत्समनंतरमेव केवलज्ञानं केवलदर्शनं चोपजननमासादयति, यथोक्तमागमे-“वीसमिऊण नियंठो” इत्यादि, 'चरमे णाणावरण मित्यादि । अत्राहोक्तमित्यादिना (२१३-१०) उत्तरसूत्रं सम्बध्नाति, मोहक्षयात् केवलज्ञानोत्पत्तिः, अथैषां मोहादीनां क्षयः कथं केन भवतीति, अयमभिप्रायः प्रश्नयतो-यावदपि सकषाययोगस्तावदपि कर्म सततं | बध्नाति कषाययोगप्रत्ययं, तच्च प्रतिक्षणं बनन् कथं क्षयं करोतीति, अत्रोच्यते इत्याह बन्धहेत्वभावनिर्जराभ्यां ॥१०-२ ॥ सूत्रम् ॥ आत्मप्रदेशानां कर्मपुद्गलानां चान्योऽन्यानुगतिलक्षणःक्षीरोदकबद्वन्धः तस्य हेतुर्मिथ्यादर्शनादिः पंचविधः तस्य हेतोरभावाद् | अपूर्वकर्मागमो नास्ति, प्रथमबद्धस्य च निर्जरणं निर्जरा-आत्मप्रदेशेभ्यः परिशटनं कर्मणः, बन्धहेत्वभावश्च निर्जरा च बंधहेत्वभावनिर्जरे ताभ्यां बंधहेत्वभावनिर्जराभ्यां कर्मपरिक्षयः, मिथ्यादर्शनादय इत्यादि (२१४-२) भाष्य, मागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बंधहेतूनां तदावरणीयस्य कर्मणः क्षयावभावो भवति, मिथ्यादर्शन| अज्ञानविशेषः, ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते, अन्यथा व्यवस्थितान् जीवादिपदार्थानन्यथा वैपरीत्येन । ॥५१३॥ प्रतिपद्यते, अत आह-तदावरणीयस्य ज्ञानावरणीयस्य कर्मणःक्षयादात्यन्तिकात् तस्य-मिथ्याज्ञानस्य यदावरणं तदभावान् ॥५१३॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556