Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 528
________________ श्रीतच्चार्थ हरि० ९ अध्या० MOHI DH MOHSIC PHOTOCOMHOCHHARIOD प्रतिसेवमानः पुलाको भवति, मैथुनमित्येके, अपरे व्याचक्षते-मैथुनमेवेत्थं परामियोगात् बलात्कारेण वा सेवा कार्यते स| पुलाकः, न प्राणातिपातादि सेवमानः, अत्राप्यन्यथैवागमः-“पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होजा?,गोयमा! पुलाकादिषु संयमादिपडिसेवए, णो पडिसेवए, जइ पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए?, मूलगुणपडिसेवए य उत्तरगुणपडिसेवए अ, | विकल्पाः मूलगुणे पडिसेवमाणे पंचपहं महत्वयाणं अण्णतरं पडिसेवेआ,उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णतरं पडिसेवेजा" | बकुशो द्वेधा-उपकरणशरीरभेदात् , तत्र तयोरुपकरणबकुशः उपकरणे वस्त्रपात्रादौ अभिष्वक्तचित्तः प्रतिबद्धस्नेहः समुपजात|तोषः विविधं देशमेदेन पौण्ड्रवर्धनककाशाकुलकादि पात्रमपि पूरिकगंधारकप्रतिग्रहकादि विचित्रं रक्तपीतसितबिंदुपटकादि प्रचितं महाधनं महामूल्यं एवमादिना उपकरणेन युक्तो, ममेदं अहमस्य स्वामीत्युपजातमूर्छः, पर्याप्तोकरणोऽपि भूयो बहुवि-|| |शेषोपकारणाकांक्षायुक्तः बहुविशेषो यत्र मृदुदृढश्लक्ष्णधननिचितरुचिरवर्णादिस्तादृशोपकरणे लब्धव्ये जाताकांक्षो-जाताभि| लापः, सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबंधघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः, शरीरब-IN कुशः शरीरादिषु आसक्तचित्तः, विभूषार्थ तस्य शरीरस्याभ्यंजनोद्वर्त्तनस्नानादिकं प्रतिसंस्कार सेवमानस्तच्छील एव भवति, एष। चोत्तरगुणभ्रंशकारी, नतु मूलगुणान् विराधयति, यथोक्तमागमे-“बउसे पुच्छा?, गोयमा ! णो मूलगुणसेवी, उत्तरगुणपडिसेवए 0 होजा, उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेजा," प्रतिसेवनाकुशीलः मूलगुणान्-प्राणातिपातनिवच्यादीन् अविराधयन्-अखंडयन् उत्तरगुणेषु दशसु कांचिद्विराधनां, न सर्वा, कदाचिदेव प्रतिसेवत इति, अत्राप्यागमोऽन्यथा ॥५०८॥ अतिदेशकारि-"पडिसेवणाकुसीलो जहा पुलाओ" कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ३। तरन्त्यनेनेति E O ICIC): ॥५०८।। Join Education iroernational For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556