Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतत्वार्थ-|
हरि० ९ अध्या०
भवतां कथंचित् केनचित् प्रकारेण अल्पेनापि हेतुना कुड्याकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना संज्वलनकषायाः क्रोधादयः उदीर्यन्ते उदयमुपनीयंते किंचिदेव कारणमासाद्योदयं गच्छति ते कषायकुशीलाः। सम्प्रति निर्ग्रन्थनिरूपणार्थमाह-ये वीतरा- पुलाकादयः गच्छद्मस्था इत्यादि (२०९-१४) उपशमितक्षपितमोहजाला विगताशेषरागद्वेपमोहत्वात् एकादशद्वादशगुणस्थानवर्तिनः ते वीतरागच्छद्मस्थाः,छद्म-आवरणं तत्र स्थिताः सावरणज्ञानाः छद्मस्था ईर्यापथप्राप्ताः अकषायत्वादुपशान्तक्षीणकषायाश्च एकसमयावस्थमीर्यापथकर्म बनंति, इर्या व्यापारो योग इति पर्यायाः, तस्य व्यापारस्य विषयः पंथाः, स च संयमः सप्तदशप्रकारः, एनमेवार्थ स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः, योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इत्यर्थः, यावत्ते विकीर्णमोहग्रन्थय इत्यर्थः, सयोगाः त्रयोदशगुणस्थानवर्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिमलपटलाः इत्यर्थः, शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः, ते च केवलिनो विहृत्य कंचित् कालं ततोऽकृतसमुद्घाताः समुद्घाताद्वा निवृत्ताः क्रमेण योगाविरुंधति,स चोक्त एव क्रमः प्राक, निरुद्धयोगाश्च व्युपरतक्रियाऽनिवर्तिना ध्यानेन शेषान् कमांशान् क्षपयति, यथोक्तं-"ध्यानं ह्यभिसंधानं ध्यानेन च कर्मणो भवति मोक्षः । ध्यानेन ततः क्षपयति | कर्माणि स पंचमात्रेण ॥१॥ पंच मात्रा यत्र ध्यान इति, एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते, तदा चेमाः प्रकृतीः क्षपयति| स्पर्शरसवर्णगंधानादेयनिर्माणदेहनामानि । [पंच] संहननांगोपांगानि तथा संस्थाननामानि ॥१॥ नृसुरगतिप्रायोग्ये सुरगत्युपधा-|H तमगुरुलघुता च । उच्छासपराघातं पर्याप्तशुभाशुभानि तथा ॥२॥ दुर्भगदुःस्वरसुस्वरनीचैर्गोत्रस्थिरास्थिराणि तथा । अन्यतरवेद्यख
U||५०५॥ गतिप्रत्येकशरीरमयशश्च ॥३।। प्रकृतय एता द्विचरमसमये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्याश्च ततः प्रकृतीः स चरमांते
S
॥५.५॥
Jan Education International
For Personal Private Use Only
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556