Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 524
________________ पुलाकादयः श्रीस्वार्थ हरि० ९ अध्या aormanshimICE rium NHI. WHADE शरीरं अंगोपांगसंघातः उपकारित्वादुपकरण-वस्त्रादि तद्विषयां विभूषां-अलंकृतिमनुवर्त्तन्ते तच्छीलाश्चेति, शरीरे तावदनागु|गुत्यस्यतिरकण करचरणमदनप्रक्षालनमक्षिकर्णमासिकाश्यपेभ्यो दूषिकामलाद्यपनयनं दंतवनभक्षणं केशसंस्कारं च विभूषार्थ चाचरन् शरीरवकुशो भवति, उपकरणबकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षकवासःप्रियः पात्रदण्डकाद्यपि तेलमात्रयोज्वलीकृत्य विभूपार्थमनुवर्तमानो बिभर्ति, ऋद्धिः प्रभूतवस्त्रपात्रादिका तामिच्छंति-कामयंते यशः ख्यातिः गुणवंतो विशिष्टाः साधव इत्येवंविधः प्रवादस्तच्च यशः कामयंति इति ऋद्धियशाकामाः, सातगौरवमाश्रिता इति सुखशीलता | सातागौरवं तदाश्रिताः,आदरवचनो गौरवशब्दः,सुखे य आदरस्तदवाप्तिव्यापारप्रवणता तदाश्रिताः,नातीवाहोरात्राभ्यन्तरानुष्ठेयासु | क्रियास्वभ्युद्यताः, अविविक्ता इति नासंयमात् पृथग्भूताः घृष्टजंघाः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशाः, एवंविधः परिवारो येषां तेऽविविक्तपरिवाराः सर्वदेशच्छेदाहा॑तिचारजनितशबलेन वैचित्र्येण युक्ताः, एवंविधा निर्ग्रन्था बकुशसंज्ञाः [[कुशीलाच] कुशीलस्वरूपनिरिणायाह-कुशीला द्विविधा इत्यादि(२०९-९)अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभंगेन केनचित् | कषायोदयेन कुत्सितं शीलं येषां ते कुशीलाः द्विप्रकाराः,तत्प्रकाराख्यानायाह-प्रतिसेवनाकुशीलाः कषायकुशीलाच आसेवनं | भजनं प्रतिसेवना तया कुत्सितं शीलमेषामिति प्रतिसेवनाकुशीलाः,कषायाः-संज्वलनाख्याः तदुदयात् कुत्सितं शीलं एषामिति कषा| यकुशीलाः, तत्र तयोः प्रसेबनाकुशीला नैर्ग्रन्थ्य प्रति प्रस्थिताः अनियतेन्द्रियाः इंद्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथंचित् केनचित् प्रकारेण व्याजमुपदिश्य किंचिदेवोत्तरगुणेषु पिंडविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयंतः खंडयंतोऽतिचरंते प्रतिसेवनाकुशीलाः। येषामित्यादिना कषायकुशीलानाचष्टे, येषां संयतानां सतां मूलोत्तरगुणसंपदुपेतानामपि mpo ॥५०४॥ ॥५०४॥ Jan Education troernational For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556