Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 522
________________ श्रीतत्वार्थ हरि० ९ अध्या० श्रेणिः माह-अनोच्यत इति, यत्तत्वं तदाख्यायत इत्यर्थः।। सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षएकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः निर्जरणक्रमशोऽसंख्येयगुणनिर्जराः ॥९-४८ ॥ सूत्रम् ॥ सम्यग्दृष्टिरिति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तेन युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रभागित्यर्थः, आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः, शृण्वंश्च सकलचरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षावतलक्षणं धर्ममनुतिष्ठति यथाशक्ति | वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक इति, विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात् प्राणातिपाताद्यावजीवं विरतः, एवं मृषावादादिभ्योऽपि, अनन्तः संसारस्तदनुबंधिनोऽनन्ताः क्रोधादयः तान् वियोजयति-क्षपयति उपशमयति वाऽनन्तवियोजकः, दर्शनमोहोऽनन्तानुबंधिनश्चत्वारः सम्यमिथ्यात्वतदुभयानि च, अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः, तथाऽस्यैवोपशमकः, मोहः अष्टाविंशतिभेदः षोडश कषायाः सम्यमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदाश्च, अस्योपशमनादुपशान्तमोहः, अस्यैव सकलस्य क्षपणात् मोहक्षपकः, क्षपणोपशमनक्रियाविशिष्टयोहणं,क्षपितनिरवशेषमोहः क्षीणमोहः, चतुर्विधघातिकर्मजयनाजिनः-केवली, एते सम्यग्दृष्टयादयो जिनावसाना दश क्रमेण क्रमशः प्रतिपाद्याः यथोपन्य-0 |स्तास्तथैवासंख्येयगुणनिर्जरा भवंति, नतु तुल्यनिर्जरा इत्यर्थः,तामेवासंख्येयगुणां निर्जरां स्पष्टयति भाष्यकारः सम्यग्दृष्टेः श्रावकोऽसंख्येयगुण(२०९-२) इत्यादिना, केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादिकलापः श्रावकोऽसंख्येयगुणनिर्जरो भवति, यावत् ||॥५०२॥ |कर्म निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत् कर्म परेणासंख्येयेन राशिना गुणितं सद्यावद्भवति तावद्देशविरतिःक्षपयति, ॥५०२।। Jan Education For Personal Private Use Only

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556