________________
श्रीतत्वार्थ
हरि० ९ अध्या०
श्रेणिः
माह-अनोच्यत इति, यत्तत्वं तदाख्यायत इत्यर्थः।। सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षएकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः
निर्जरणक्रमशोऽसंख्येयगुणनिर्जराः ॥९-४८ ॥ सूत्रम् ॥ सम्यग्दृष्टिरिति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तेन युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रभागित्यर्थः, आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः, शृण्वंश्च सकलचरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षावतलक्षणं धर्ममनुतिष्ठति यथाशक्ति | वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक इति, विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात् प्राणातिपाताद्यावजीवं विरतः, एवं मृषावादादिभ्योऽपि, अनन्तः संसारस्तदनुबंधिनोऽनन्ताः क्रोधादयः तान् वियोजयति-क्षपयति उपशमयति वाऽनन्तवियोजकः, दर्शनमोहोऽनन्तानुबंधिनश्चत्वारः सम्यमिथ्यात्वतदुभयानि च, अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः, तथाऽस्यैवोपशमकः, मोहः अष्टाविंशतिभेदः षोडश कषायाः सम्यमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदाश्च, अस्योपशमनादुपशान्तमोहः, अस्यैव सकलस्य क्षपणात् मोहक्षपकः, क्षपणोपशमनक्रियाविशिष्टयोहणं,क्षपितनिरवशेषमोहः क्षीणमोहः, चतुर्विधघातिकर्मजयनाजिनः-केवली, एते सम्यग्दृष्टयादयो जिनावसाना दश क्रमेण क्रमशः प्रतिपाद्याः यथोपन्य-0 |स्तास्तथैवासंख्येयगुणनिर्जरा भवंति, नतु तुल्यनिर्जरा इत्यर्थः,तामेवासंख्येयगुणां निर्जरां स्पष्टयति भाष्यकारः सम्यग्दृष्टेः
श्रावकोऽसंख्येयगुण(२०९-२) इत्यादिना, केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादिकलापः श्रावकोऽसंख्येयगुणनिर्जरो भवति, यावत् ||॥५०२॥ |कर्म निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत् कर्म परेणासंख्येयेन राशिना गुणितं सद्यावद्भवति तावद्देशविरतिःक्षपयति,
॥५०२।।
Jan Education
For Personal Private Use Only