________________
श्रीतच्चार्थ
हरि०
९ अध्या०
114=211
Jain Education International
5000
| उच्यत इति ॥ सम्प्रति विचारस्वरूपनिरूपणायाह-
विचारोऽर्थव्यंजनयोगसंक्रान्तिः ॥ ९-४७ ॥ सूत्रम् ॥
अर्थव्यंजनयोर्योगेषु संक्रमणं संक्रान्ति:, अर्थः- परमाण्वादिः व्यंजनं तस्य वाचकः शब्दो योगः- मनोवाक्काय लक्षणस्तेषु संऋतिः एकद्रव्ये अर्थस्वरूपाद् व्यंजनं व्यंजनस्वरूपादर्थं, वर्णादिकः पर्यायोऽर्थः व्यंजनं शब्दः, एतदुक्तं भवति - प्राक् शब्दस्वतच्चाव| लंबनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिंतनं साकल्येन ततः शब्दार्थयोः स्वरूपविशेषचिंताप्रतिबन्धः प्रणिधानमर्थ| संक्रान्तिः काययोगोपयुक्तध्यानस्य वाग्योगसंचारः वाग्योगोपयुक्तध्यानस्य वा मनोयोगसंचार इत्येवमन्यत्रापि योज्यं, इत्थंलक्षणो विचार इत्यस्ति वितर्क विचारयोः प्रतिविशेष इति । एतदभ्यंतरं तप इत्यादि, संवरप्रस्तावे इदमुक्तं 'तपसा निर्जरा चे 'ति | संवरो निर्जरा च भवति, उभयं करोति तपः, तच्च तपो बाह्यमभ्यंतरं च संवरकारणं, संवररूपत्वाच्च स्थगिताश्रवद्वारस्य अभिनवक| र्मोपचयप्रतिषेधकारणेन नापूर्वकर्म्म पुद्गलप्रवेशः, निर्जरण फलत्वात् कर्म्म निर्जरयति, परिशाटयतीत्यर्थः, ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वात् पूर्वोपचितकर्मनिर्जरकत्वाच्च सकलकर्म्मपरिक्षयान्निर्वाण प्रापकमिति । 'अत्राहोतं भवते 'त्यादि (२०८-१० ) सम्बन्धः किमुक्तं तद्दर्शयति- परीष हजयात् क्षुत्पिपासादयः परीषहास्तजयात् सम्यगधिसहनात् तपो द्वादशभेदमनशनप्रा| यश्चित्तादि तदनुष्ठानात् अनुभावो विपाकस्तस्माच्च विपाकात् कर्म्मणः परिशाटो निर्जरा भवतीति, एवमनूद्य निर्जरां सन्देहस्था| नमुपन्यस्यति - यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्व एव समनिर्जराः तुल्यमेव कर्म्म निर्जरयंति आहोश्वित् अस्ति कश्चित् प्रतिविशेष इति, प्रतिविशेषो विषमनिर्जरणं, न तुल्यनिर्जरणत्वमिति, आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरण
For Personal & Private Use Only
विचार
स्वरूपं
॥५०१ ॥
www.jainelibrary.org