________________
शुक्लध्यानं
श्रीतचार्थ
हरि० ९ अध्या०
एकाश्रये सवितर्के पूर्वे ॥ ९-४४ ॥ सूत्रम् ॥ ' एकः आश्रयः-आलंबनं ययोस्ते एकाश्रये इति पूर्वविदारभ्ये, मतिगर्भश्रुतप्रधानन्यापाराकाश्रयता, परमाणुद्रव्यमेवैकमालम्ब्य आत्मादि द्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्याने इति, वितर्कः श्रुतमिति वक्ष्यति, सह एकद्रव्याश्रयेण वितर्केण सवितर्के, | पूर्वगतश्रुतानुसारिणी इत्यर्थः, पूर्व च पूर्व च पूर्वे ध्याने, एतदेव निश्चिनोति-प्रथमद्वितीये इति, पृथक्त्ववितर्कमेकत्ववितर्क च, तत्र तयोर्यत् प्रथममायं पृथक्त्ववितकं तत् सविचारं सह विचारेण सविचार सह संक्रान्त्येतियावत् , वक्ष्यति-विचारोऽर्थव्यंजनयोगसंक्रान्तिः, कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ?, अविचारं द्वितीयमितिवचनादर्थलभ्यं सविचारमिति॥
अविचारं द्वितीयं ॥ ९-४५।। सूत्रम् ॥ अविद्यमानविचारं, अर्थव्यंजनसंक्रांतियोगरहितमित्यर्थः, द्वितीयमिति सूत्रप्रामाण्यादेकत्ववितर्कमविचारं भवति ध्यानमिति । अत्राहेत्यादि (१०८-२) वितर्कविचारयोर्विशेषमजानानः स्वरूपमनवगच्छन् परः पृच्छति, प्रतिविशेष इति प्रतिशब्दस्तचा| ख्यायां वर्तते, यथा शोभनश्चैत्रः प्रति मातरं, एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्वं वितर्कसविचारयोः कीगिति तत्वमाख्यायतां, अत्रोच्यत इत्याह
वितर्कः श्रुतं ।। ९-४६ ॥ सूत्रम् ॥ वितर्को-मतिज्ञानविकल्पः वितळते-येनालोच्यते पदार्थः स वितर्कस्तदनुगतं श्रुतं वितर्कस्तदभेदात् विगततकं वा, संशयविपर्ययापेतं श्रुतज्ञानमित्यर्थः, इदमेव सत्यमित्यविचलितस्वभावं यथोक्तमिति पूर्वगतमेव, नेतरत् , श्रुतज्ञानमाप्तवचनं वितर्क
॥५०॥
॥५०॥
Join Education international
For Personal
Oy