Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 505
________________ श्रीतत्वार्थ- हरि० ९ अध्या० | विकृष्टं दशमादि किंचिन्यूनषण्मासांतमुग्रं तपस्तद्युक्तस्तपस्वीति । अचिरप्रवजित (२०२-१) इत्यादि, आद्यपश्चिमतीर्थयोमध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽचिरप्रव्रजितः, ग्रहणासेवनशिक्षामुभयी शिक्षयितव्यः|| वैयावश्यशैक्षः, शिक्षामर्हति वा शैक्षकः, शिक्षाशीलो वा शैक्षः, ज्वालाच्यादित्वाण्णप्रत्ययः,ग्लानो मन्दोऽपटुाध्यभिभूतः| मेदाः प्रतीतः, सुज्ञान एवेत्यर्थः, कुलानि स्थानीयादीनि कुलसमुदायो गणः स्थविरसंततिसंस्थितिः स्थविरग्रहणेन श्रुतस्थविरप| रिग्रहः, न वयसा पर्यायेण वा, तेषां संततिः-परंपरा तस्याः संस्थान-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्यसंततिसंस्थितिः, एकाचार्यप्रणेयः साधुसमूहो गच्छः, बहूनां गच्छानामेकजातीयानां समूहं कुलं, तत्र ये आचार्यगुणोपेतास्तत्संततिस्थितिः कुलं, तेषां प्राधान्यात् , संघश्चतुर्विधः साधुसाध्वीश्रावकश्राविकाः, तत्र येषु व्यवस्थिता ज्ञानदर्शनचरणगुणास्ते परमार्थतः संघः श्रमणादिरिति, पुरुषोत्तरधर्म इति ज्ञापनार्थमुक्तं साधवः संयता इति, ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः | मोक्षं साधयंतीति साधवः संयता इति मृलोत्तरगुणसंपन्नाः, द्वादशविधसंभोगमाजः समनोज्ञा ज्ञानदर्शनचारित्राणि मनोज्ञानि, सह मनोज्ञैः समनोज्ञाः, तानि च संभोगकारणानि संविग्नेष्वपि विद्यते, एषामित्यादि (२०३-५) आचार्यादयः समनोज्ञांताः संबध्यते एषामित्यनेन, अन्नपानादयः प्रसिद्धास्तैरुपग्रहः उपकारः शुश्रूषा विश्रामणादिका भेषजक्रिया मांघे सति तदनुरूपं मेषजसंप्रदानं कान्तारं अरण्यं श्वापदबहुलत्वाद्विषमं दुर्ग गर्ताकंटकादिप्रचितं उपसर्गो ज्वरातीसारकासश्वासमरकादिः अभ्युपप|त्तिरभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादिना यत्तद् वैयावृत्यमिति ॥ सम्प्रति स्वाध्यायोऽभिधीयते • वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥ ९--२५ ॥ सूत्रम् ॥ StaMDISSOORS ॥४८५॥ ॥४८५॥ Jan Education r ational For Personal & Private Use Only

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556