________________
श्रीतत्वार्थ-
हरि० ९ अध्या०
| विकृष्टं दशमादि किंचिन्यूनषण्मासांतमुग्रं तपस्तद्युक्तस्तपस्वीति । अचिरप्रवजित (२०२-१) इत्यादि, आद्यपश्चिमतीर्थयोमध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽचिरप्रव्रजितः, ग्रहणासेवनशिक्षामुभयी शिक्षयितव्यः|| वैयावश्यशैक्षः, शिक्षामर्हति वा शैक्षकः, शिक्षाशीलो वा शैक्षः, ज्वालाच्यादित्वाण्णप्रत्ययः,ग्लानो मन्दोऽपटुाध्यभिभूतः|
मेदाः प्रतीतः, सुज्ञान एवेत्यर्थः, कुलानि स्थानीयादीनि कुलसमुदायो गणः स्थविरसंततिसंस्थितिः स्थविरग्रहणेन श्रुतस्थविरप| रिग्रहः, न वयसा पर्यायेण वा, तेषां संततिः-परंपरा तस्याः संस्थान-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्यसंततिसंस्थितिः, एकाचार्यप्रणेयः साधुसमूहो गच्छः, बहूनां गच्छानामेकजातीयानां समूहं कुलं, तत्र ये आचार्यगुणोपेतास्तत्संततिस्थितिः कुलं, तेषां प्राधान्यात् , संघश्चतुर्विधः साधुसाध्वीश्रावकश्राविकाः, तत्र येषु व्यवस्थिता ज्ञानदर्शनचरणगुणास्ते परमार्थतः संघः श्रमणादिरिति, पुरुषोत्तरधर्म इति ज्ञापनार्थमुक्तं साधवः संयता इति, ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः | मोक्षं साधयंतीति साधवः संयता इति मृलोत्तरगुणसंपन्नाः, द्वादशविधसंभोगमाजः समनोज्ञा ज्ञानदर्शनचारित्राणि मनोज्ञानि, सह मनोज्ञैः समनोज्ञाः, तानि च संभोगकारणानि संविग्नेष्वपि विद्यते, एषामित्यादि (२०३-५) आचार्यादयः समनोज्ञांताः संबध्यते एषामित्यनेन, अन्नपानादयः प्रसिद्धास्तैरुपग्रहः उपकारः शुश्रूषा विश्रामणादिका भेषजक्रिया मांघे सति तदनुरूपं मेषजसंप्रदानं कान्तारं अरण्यं श्वापदबहुलत्वाद्विषमं दुर्ग गर्ताकंटकादिप्रचितं उपसर्गो ज्वरातीसारकासश्वासमरकादिः अभ्युपप|त्तिरभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादिना यत्तद् वैयावृत्यमिति ॥ सम्प्रति स्वाध्यायोऽभिधीयते
• वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥ ९--२५ ॥ सूत्रम् ॥
StaMDISSOORS
॥४८५॥
॥४८५॥
Jan Education r
ational
For Personal & Private Use Only