________________
श्रीतत्त्वार्थ
हरि० ९ अध्या
स्वाध्यायव्युत्सर्गों
स्वाध्यायः पंचविध इत्यादि (२०३-९) तद्यथेत्यनेन भेदपंचकोपन्यासं सूचयति, तत्र वाचनेत्यादि, शिष्याणामध्यापन वाचना-कालिकस्योत्कालिकस्य वा आलापकप्रदान, ग्रन्थः सूत्रमर्थ सूत्राभिधेयं तद्विषयं प्रच्छनं सन्देहे सति, ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा, न तु बहिर्वोच्चारणमनुश्रयणीयं, आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रयणीयमभ्यासविशेषः गुणनं संख्यानं पदाक्षरद्वारेण रूपादानमेकं रूपं एका परिपाटी द्वे रूपे त्रीणि रूपाणि इत्यादि, धर्मोपदेशस्तु सूत्रार्थकथनं| व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनान्तरमिति। अधुना व्युत्सर्गो व्याख्यायते
बाह्याभ्यन्तरोपध्योः ॥९-२६ ।। सूत्रम् ॥ व्युत्सर्गो द्विविध (२०४-१) इत्यादि, विविधस्योत्सर्गो व्युत्सर्गः, संसक्तासंसक्तपानादेविधिना प्रवचनविहितेनोत्सर्गो व्यु|त्सर्गः, स द्विप्रकारः बाह्याभ्यंतरभेदात् , तत्र बाह्यो बाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश | रूपाण्यस्येति द्वादशरूपकः उपग्राहकत्वादुपधिः आभ्यन्तरः शरीरस्य कषायाणां चेति शरीरस्य पर्यन्तकाले विज्ञाय किंचित् | शरीरकं परित्यजति-उज्झति, यथोक्तं-"जपि इमं सरीरं इ8 कंत"मित्यादि,क्रोधादयः कषायाः संसारपरिभ्रमणहेतवस्तेषां व्युत्सर्गः -परित्यागो मनोवाकायैः कृतकारितानुमतिमिश्चेति ॥ सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयः, तन्निरूपणायाह
उत्तमसंहननस्यैकाग्रचिंतानिरोधो ध्यानं ।। ९-२७ ॥ सूत्रम् ॥ | उत्तम प्रकृष्ट संहननमस्त्रां बन्धविशेषः उत्तम संहननमस्येत्युत्तमसंहननः,तदुत्तमसंहननं चतुर्विधं इत्यादिना दर्शयति चातुविध्यं, वज्रर्षभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः, वृत्यर्थस्तु नाराचशब्दः प्रत्येकं सम्ब
॥४८६॥
॥४८६॥
IIm
Jan Education International
For Personal
Private Use Only
www.jainelibrary.org