SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ध्यानं श्रीतत्वार्थ हरि० ९अध्या BADMINTOHINIOHINOH ध्यते, तत्र वज्रर्षभनाराचं पुनरर्द्धनाराचं तथा ऋषभनाराचं तथा नाराचं च, एते उत्तमसंहननवाच्याः, उत्तमसंहननग्रहणं निरोधे | कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थ, तस्योत्तमसंहननस्य एकाग्रचिंतानिरोधो ध्यानं अग्रं-आलंबनं एकं च तदग्रं चेत्येकाग्रमेकमालम्बनमित्यर्थः, एकसिनालंबने चिंतानिरोधः चलचित्तमयी चिन्ता तनिरोधस्तस्यैकत्रावस्थापनं अन्यत्राप्रचारो निरोधः, अतो निश्चलं स्थिरमध्यवसानमेकालंबने छद्मस्थविषयं ध्यानं, केवलिनां पुनर्वाक्कायनिरोध एव ध्यानं, अभावान् मनसः, न ह्यवाप्लकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति, तद्युक्तस्येति तेन विशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा| युक्तस्य सम्पन्नस्य एकाग्रचिंतानिरोधश्च चशब्दाद्वाकायनिरोधश्च, अत्र च ध्याता संसार्यात्मा, ध्यानस्वरूपमेकाग्रचिंतानिरोधो, |संहननानि ध्याननिमित्तं, भावसाधनः, उत्तमसंहननस्य इत्यन्यपदार्थः नभ्यो(गम्यः)ध्याताभिहितो, ध्यानस्वरूपे भावसाधनता च | | विज्ञेया । सम्प्रति ध्यानकालप्रमाणनिरूपणायाह आमुहूर्तात् ।। ९-२८ ।। सूत्रम् ॥ घटिकाद्वयं मुहूर्तः, अमिविधावाङ्, अन्तर्मुहर्सपरिमाणं, न परतो मुहूर्तादित्यर्थः, तथानमित्यादि, तदेतत् सामान्यलक्ष| णोक्तं ध्यानं चतुर्विधमप्यासहर्ताद् भवति, परतो न भवत्यशक्तेरेव, किं पुनः कारणं परतो न ध्यानमस्तीति ?, आह-दुर्ध्यानस्वादिति, दुःशब्दो वैकृते वर्त्तते, विकृतो वर्णो दुर्वर्ण इनि यथा, एवं विकृतं ध्यान-विकारान्तरमापनं दुनिमिति, अनीप्सायां वा दुःशब्दः, अनीप्सितो अस्या भग इति दुर्भगा कन्या, एवमनीप्सितं ध्यानं दुर्ध्यानमिति, तद्भावो दुर्ध्यानत्वं तस्मात् दुर्ध्यानत्वात् , परतो न ध्यानमस्ति । सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह A RDOIDHAN MOM ॥४८७|| ॥४८७|| For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy