SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थ हरि० ९ अध्या० ||४८८|| JC-00 XCxX Jain Education International आर्त्तरौद्रधर्म्यशुक्लानि ॥ ९-२९ ।। सूत्रम् ।। कृतद्वन्द्वान्यार्त्तादीनि नपुंसकपहुवचनेन निर्दिष्टानि तचतुर्विधं भवतीति, ध्यानं सामान्येन लक्षितं चतुर्विधं भवति, चतस्रो विधा यस्य तच्चतुर्विधं विधानप्रदर्शनायाह- तद्यथेति आतं रौद्रं धर्म्य शुक्लमिति तत्रार्त्तस्य शब्दनिर्भेदाभिधानं ऋतशब्दो | दुःखपर्यायवाच्यस्ति तत्र भवं आर्त्त दुःखानुबंधि चेति, तथा रोदयति अपरानिति रुद्रः- दुःखस्य हेतुस्तेन कृतं तत्कर्म्म वा रौद्रं, | प्राणिवधबंध परिणत आत्मैव रुद्र इत्यर्थः धर्म्मः क्षमादिदशलक्षणः तस्मादनपेतं धर्म्यं, शुक्लं शुचि निर्मलं सकलकर्म्मक्षय हेतुत्वादिति, | शुक् चाप्रकारं कर्म्म तां शुचं क्लमयति-ग्लापयति निरस्यतीति शुक्लमित्येतावदेव ध्यानं चतुर्विधमिति । तेषामित्यनेन सूत्रं सम्बभाति, परे मोक्षहेतू ।। ९-३० ।। सूत्रम् ॥ तेषां चतुर्णामित्यादि, यानि प्रस्तुतानि ध्यानानि तेषामार्त्तरौद्रधर्म्यशुक्लानां चतुर्णा ध्यानानां सूत्रसन्निवेशमाश्रित्य परे धर्मशुक्ले मोक्षहेतू मुक्तेः कारणतां प्रतिपद्येते, तत्रापि साक्षान् मुक्तेः कारणीभावः पश्चात् शुक्लध्यानभेदे सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्त्ति न धर्म्मध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति, ततश्चैतद् धर्म्मध्यानादि देवगतेर्मुक्तेश्च कारणं, न मुक्तेरेव, अर्थादिदमवगम्यमानमाह-पूर्वे त्वार्त्तरौद्रे संसारहेतू इत्यार्त्तरौद्रयोः संसा| रहेतुता, संसारश्च नरकादिभेदश्चतुर्गतिक इति, परमार्थतस्तु रागद्वेषमोहाः संसारहेतवस्तदनुगतं चातं, अथ रौद्रमपि प्रकृष्टतमरागद्वेष| मोहभाजोऽतः संसारपरिभ्रमण हेतुता तयोरिति ।। सम्प्रति ध्येयप्रकाराः विषयविकल्पनिमित्तभेदेनोच्यते - अत्राहेत्यादि सम्बन्धः । आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ९ ३१ सूत्रम् ॥ For Personal & Private Use Only ध्यानानि 1186411 www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy