SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ श्री तवार्थ हरि० ९ अध्या० ।।४८९ ।। Jain Education International आर्त्तशब्दः पूर्ववद् व्याख्येयः, अमनोज्ञाः अनिष्टाः शब्दादयस्तेषां संप्रयोगे संबंधे इंद्रियेण सह सम्पर्के सति चतुर्णां शब्दस्पशेरसगंधानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेः स्वविषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तद्विप्रयोगायेति तदित्यमनोज्ञविषयाभिसम्बन्धः तेषाममनोज्ञानां शब्दादीनां विप्रयोगोऽपगमस्त्यागस्तदर्थं विप्रयोगाय अनिष्टशब्दादिविषयपरिहाराय स्मृतिसमन्वाहारस्तदार्त्त, स्मृतिसमन्वाहारो नाम कथमहमस्माद मनोज्ञात् विषयसंप्रयोगात् विप्रमुच्येयेति, स्मर्यतेऽनेनेति स्मृतिः अभिधीयते, स्मृतिहेतुत्वाद्वा स्मृतिः अविच्युतिरूपं मनस्तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहारः- अमनोज्ञविप्रयोगाय व्यव स्थापनं मनसो निश्चलत्वमार्तध्यानं, केनोपायेन विप्रयोगः स्यादित्येकतानं मनोनिवेशनमार्त्तध्यानमित्यर्थः । किंचान्यदिति सम्बभाति, प्रकारान्तरमन्यदप्यार्त्तस्यास्तीत्याह वेदनायाश्च ।। ९-३२ ।। सूत्रम् ।। वेदनं वेदना अनुभवः, अमनोज्ञ इति अनन्तरमनुवर्त्तते तदपि सम्बन्धन् भाष्यकृदाह-वेदनायाश्चामनोज्ञाया इत्यादि, सुखा दुःखा चोभयी वेदना, तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसनिपातनिमित्तैरुपजातायाः शूलशिरः कं पज्वराक्षिश्रवणवेदनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारे ध्यानमार्च, एष द्वितीयोऽधिकृतः । किंचान्यदिति आर्त्तप्रकारान्तरं दर्शयतिविपरीतं मनोज्ञानां ।। ९-३३ ।। सूत्रम् मनोज्ञा-अभीष्टाः प्रीतिहेतवस्तेषां विपरीतं संयोजनं कार्य, मनोज्ञानामित्यादि, मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः, विपरीतप्रधानार्थामिसंबंधो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहारः तत्संप्र For Personal & Private Use Only www आर्त्तध्यानं ।।४८९ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy