________________
श्रीतस्वार्थहरि०
९ अध्या०
॥४९० ॥
Jain Education International
योगार्थं तत्संप्रयोजनः स्मृतेः समन्वाहारः, कथं नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यात् ममेत्येवं प्रणिधत्ते दृढं मनस्तदप्यार्त्तमिति । किंचान्यदिति (२०५८) तुरीयमार्त्तप्रकारं दर्शयति
निदानं च ॥ ९३४ ॥ सूत्रम् ॥
निपूर्वाद्दातेर्लवनार्थस्य ल्युटि रूपं, दायते-लूयते येनात्महितमैकात्यंतिकानाबाधसुखलक्षणं तनिदानमिति, चशब्दः समुच्चये, एष चार्त्तप्रकार इत्यर्थः, कामोपहतचित्तानामित्यादि कामः - इच्छाविशेषः शब्दाद्युपभोगविषयः अथवा मदनः कामः चिरमुग्रतपो निष्टप्य कर्म्मक्षपणक्षममदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधानो बह्वविनश्वरं सतततृप्तिकारि मुक्तिसुखमनुपममवमत्य प्रवर्त्तमानाः कामोपहतचेतसः पुनर्भवविषयसुखगृद्धानामिति यमिदानं तदार्त्तध्यानं निदानरूपं, एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमा भवतीति । तथैतस्यार्त्तध्यातुः चतुष्प्रकारस्यापि शोकादीनि लक्षणानि भवंति यैरार्त्तध्यायी लक्ष्यते, करतलपर्यस्तप्रम्लानवदनः शोचति ऋदति विलपति हा अहो धिक् कष्टं तथा कलहमात्सर्यासूयारतिस्त्रीभोजनकथासुहृत्स्वजनानुरागथ तस्य लक्ष| णानि भवंति परिस्फुटानीति, इदमार्त्तध्यानं सभेदकमभिधायाधुनाऽस्यैव ध्यातारः स्वामिनो निरूप्यन्त इति तदर्थमाहतदविरतदेश विरतप्रमत्तसंयतानां ।। ९-३५ ॥ सूत्रम् ॥
तदित्यार्त्तमभिसंबध्यते, तदार्त्तध्यानमविरतसम्यग्दृष्टथादीनां त्रयाणां संभवति, अस्य त्रयः स्वामिनश्चतुर्थपंचमषष्ठगुणस्थानवर्त्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः, अविरतश्वासौ सम्यग्दृष्टिश्वेति अविरतसम्यग्दृष्टिः, नाणुव्रतधारी, औपशमिकक्षायि
For Personal & Private Use Only
आर्त्तध्यानं
||४९० ॥
www.jainelibrary.org