________________
श्रीतचार्थ
हरि० ९ अध्या०
वैयावृत्यभेदाः
तान् प्रकारान् नामग्राहमाख्याति-आचार्यवैयावृत्त्यमित्यादिना, वैयावृत्यशब्दव्युत्पादनायाह-व्यावृत्तभावो वैयावृत्त्यं व्या. वृत्तकर्म चेति, व्यावृत्तो-व्यापारप्रवृत्तः प्रवचनचोदितक्रियाविशेषानुष्ठानपरः तस्य यो भावः यथा भवनं भावस्तथा परिणाम| स्तन् वैयावृष्यं व्यावृत्तकमै थेति तत्तथाभूतस्य यत् कर्म-क्रिया तद्वैयाश्य, पूर्वत्र क्रियावतः प्राधान्यमुत्तरत्र क्रियाया इति ।
तथा वैयावृत्यं यथासंभवं क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणसदागमनविद्यामंत्रप्रयोजनसाध्यादिः, आचार्या| युद्देशेनाचार्यादीनां यत् कर्त्तव्यं तत्र व्यग्रता व्यावृत्तता, आचार्यः पूर्वोक्तः पंचविध इत्यादि, आचरति आचारयति चेत्याचार्यः -- "कुल्लयुटो बहुल"मिति वचनात् , धर्मः पूर्वोक्तः क्षमामार्दवार्जवादिः, तत्र पंचप्रकारः 'प्रवाजको दिगाचार्यः, श्रुतोद्देशी तथैव च । समुद्देष्टा श्रुतस्यान्यस्तथाऽऽम्नायस्य वाचकः॥१॥ इति, आचारो ज्ञानादिभेदः पंचधा तस्य गोचरो-विषयो यथास्वं तद्विषयो| | विनयस्तमाचारगोचरविनयं, स्वाध्यायं च पंचप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनु-पश्चात्तस्मादुपाधीयत इत्यु|पाध्यायः, अपादानसाधनः, संग्रहोपग्रहानुग्रहार्थ चेति वस्त्रपात्रप्रदानात् संग्रहः अन्नपानभेषजप्रदानादुपग्रहःसूत्रप्रदानादनुग्रहः | एतदर्थ चोपधीयते सेव्यत इत्युपाध्यायः,पपोदरादित्यायोपाध्येतीति,संग्रहोपग्रहानुग्रहाचास्य संबंधिनः, तत्समीपभवांस्तत्कृतानु|पाधीतेति स्मरतीत्युपाध्यायः। द्विसंग्रहो निर्ग्रन्थ इति (१०२-१५) संगृह्यतेऽनेनेति संग्रहः द्वाभ्यां गृह्यते-बद्धयते, संगृहीत इत्यर्थः,
एतदेव विवृणोति-आचार्योपाध्यायसंग्रह इति, त्रिसंग्रहा निर्ग्रन्थी आचार्यादित्रयसंगृहीतेत्यर्थः, का पुनरिदं प्रवर्तिनी ?, | दिगाचार्येण व्याख्याता तत्सदृशी द्रष्टव्या, श्रुतसकलनिशीथाध्ययना समुचितकल्पव्यवहारसूत्रग्राहिणी संविना प्राप्तदिगनुज्ञा, । सा च हिताय प्रवर्त्तते निःश्रेयसायैव घटते, अन्याश्च प्रवर्त्तयति, स्मारणधारणवारणादिप्रयोगेन प्रवर्त्तयतीति प्रवर्तिनी,
॥४८४॥
॥४८४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org