SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ विनयभेदाः श्रीतच्चार्थ हरि० ९ अध्या० भेदेषु ज्ञानविनयस्तावत् पंचविधः मतिज्ञानादिः, आदिग्रहणाच्छ्रतावधिमनःपर्यायकेवलज्ञानपरिग्रहः, अस्मिन् सति ज्ञानादिपंचके भक्तिर्बहुमानो ज्ञानस्वरूपश्रद्धानं च, ज्ञानविषये शेषः "काले विणए बहुमाणे उवहाणे" इत्यादि, दर्शनविनयस्त्वेकविध एकप्रकार एव, तत्वार्थश्रद्धानं सम्यग्दर्शनमित्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः, तथा अर्हतामहत्प्रणीतस्य च धर्मस्थाचार्योपाध्यायस्थविरकुलगणसंघसाधुसंभोगानां चानासातना, प्रशमसंवेगनिर्वेदानुकंपास्तिक्यानि च सम्यग्दर्शनविनय इति, चारित्रविनयः पंचविधः सामायिकादिः, सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानं श्रद्धानपूर्वकं चानुष्ठानं | विधिना च प्ररूपणमित्येष चारित्रविनयः, औपचारिकविनयोऽनेकविधः (२०२-२) उपचरणमुपचारः, श्रद्धापूर्वक क्रियाविशे| पलक्षणो व्यवहारः स प्रयोजनमस्येत्यौपचारिकः, स चानेकप्रकारः, तस्य विषयनिर्देशार्थमाह-सम्यग्दर्शनेत्यादि, सम्यक्त्वज्ञा नचरणानि गुणास्तैरभ्यधिका ये मुनयः आदिग्रहणाद्दशविधसामाचारीसंपत्परिग्रहः तेष्वभ्युत्थानासनप्रदानानुगमादिः अभि| मुखमागच्छति गुणाधिके उत्थानम्-आसनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानं तदनन्तरमासनप्रदानं ततो वन्दनप्रतिपत्तिः गच्छतः कतिचित् पदान्यनुगमन-व्रजनं, आदिग्रहणात् मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोऽजलिप्रग्रहः वस्त्रादिपूजा सत्कारः सद्भूतगुणोत्कीर्तनं सन्मानं, विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते क्षिप्यतेऽनेनाष्टप्रकारं कर्मेति विनयः, 'नाम्नि | घे करणसाधनः, विनीयते वाऽसिन् सति ज्ञानावरणादिरजोराशिरिति विनयः, अधिकरणसाधनो वा । सम्प्रति वैयावृत्यं उच्यते आचार्योपाध्यायतपस्विशिक्षकग्लानकुलगणसंघसाधुसमनोज्ञानां ॥९-२४ ॥ सूत्रम् ॥ आचार्यादीनां समनोज्ञातानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः, वैयाश्यं दश विधमित्यादि, आचार्यादिभेदाद्दशधा, ॥४८॥ ॥४८३॥ Jan Education international For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy