Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
विनयभेदाः
श्रीतच्चार्थ
हरि० ९ अध्या०
भेदेषु ज्ञानविनयस्तावत् पंचविधः मतिज्ञानादिः, आदिग्रहणाच्छ्रतावधिमनःपर्यायकेवलज्ञानपरिग्रहः, अस्मिन् सति ज्ञानादिपंचके भक्तिर्बहुमानो ज्ञानस्वरूपश्रद्धानं च, ज्ञानविषये शेषः "काले विणए बहुमाणे उवहाणे" इत्यादि, दर्शनविनयस्त्वेकविध एकप्रकार एव, तत्वार्थश्रद्धानं सम्यग्दर्शनमित्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः, तथा अर्हतामहत्प्रणीतस्य च धर्मस्थाचार्योपाध्यायस्थविरकुलगणसंघसाधुसंभोगानां चानासातना, प्रशमसंवेगनिर्वेदानुकंपास्तिक्यानि च सम्यग्दर्शनविनय इति, चारित्रविनयः पंचविधः सामायिकादिः, सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानं श्रद्धानपूर्वकं चानुष्ठानं | विधिना च प्ररूपणमित्येष चारित्रविनयः, औपचारिकविनयोऽनेकविधः (२०२-२) उपचरणमुपचारः, श्रद्धापूर्वक क्रियाविशे| पलक्षणो व्यवहारः स प्रयोजनमस्येत्यौपचारिकः, स चानेकप्रकारः, तस्य विषयनिर्देशार्थमाह-सम्यग्दर्शनेत्यादि, सम्यक्त्वज्ञा
नचरणानि गुणास्तैरभ्यधिका ये मुनयः आदिग्रहणाद्दशविधसामाचारीसंपत्परिग्रहः तेष्वभ्युत्थानासनप्रदानानुगमादिः अभि| मुखमागच्छति गुणाधिके उत्थानम्-आसनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानं तदनन्तरमासनप्रदानं ततो वन्दनप्रतिपत्तिः गच्छतः कतिचित् पदान्यनुगमन-व्रजनं, आदिग्रहणात् मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोऽजलिप्रग्रहः वस्त्रादिपूजा सत्कारः सद्भूतगुणोत्कीर्तनं सन्मानं, विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते क्षिप्यतेऽनेनाष्टप्रकारं कर्मेति विनयः, 'नाम्नि | घे करणसाधनः, विनीयते वाऽसिन् सति ज्ञानावरणादिरजोराशिरिति विनयः, अधिकरणसाधनो वा । सम्प्रति वैयावृत्यं उच्यते
आचार्योपाध्यायतपस्विशिक्षकग्लानकुलगणसंघसाधुसमनोज्ञानां ॥९-२४ ॥ सूत्रम् ॥ आचार्यादीनां समनोज्ञातानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः, वैयाश्यं दश विधमित्यादि, आचार्यादिभेदाद्दशधा,
॥४८॥
॥४८३॥
Jan Education international
For Personal & Private Use Only
Loading... Page Navigation 1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556