Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री तत्वार्थ
हरि०
९ अध्या०
||४८८||
JC-00 XCxX
Jain Education International
आर्त्तरौद्रधर्म्यशुक्लानि ॥ ९-२९ ।। सूत्रम् ।।
कृतद्वन्द्वान्यार्त्तादीनि नपुंसकपहुवचनेन निर्दिष्टानि तचतुर्विधं भवतीति, ध्यानं सामान्येन लक्षितं चतुर्विधं भवति, चतस्रो विधा यस्य तच्चतुर्विधं विधानप्रदर्शनायाह- तद्यथेति आतं रौद्रं धर्म्य शुक्लमिति तत्रार्त्तस्य शब्दनिर्भेदाभिधानं ऋतशब्दो | दुःखपर्यायवाच्यस्ति तत्र भवं आर्त्त दुःखानुबंधि चेति, तथा रोदयति अपरानिति रुद्रः- दुःखस्य हेतुस्तेन कृतं तत्कर्म्म वा रौद्रं, | प्राणिवधबंध परिणत आत्मैव रुद्र इत्यर्थः धर्म्मः क्षमादिदशलक्षणः तस्मादनपेतं धर्म्यं, शुक्लं शुचि निर्मलं सकलकर्म्मक्षय हेतुत्वादिति, | शुक् चाप्रकारं कर्म्म तां शुचं क्लमयति-ग्लापयति निरस्यतीति शुक्लमित्येतावदेव ध्यानं चतुर्विधमिति । तेषामित्यनेन सूत्रं सम्बभाति, परे मोक्षहेतू ।। ९-३० ।। सूत्रम् ॥
तेषां चतुर्णामित्यादि, यानि प्रस्तुतानि ध्यानानि तेषामार्त्तरौद्रधर्म्यशुक्लानां चतुर्णा ध्यानानां सूत्रसन्निवेशमाश्रित्य परे धर्मशुक्ले मोक्षहेतू मुक्तेः कारणतां प्रतिपद्येते, तत्रापि साक्षान् मुक्तेः कारणीभावः पश्चात् शुक्लध्यानभेदे सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्त्ति न धर्म्मध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति, ततश्चैतद् धर्म्मध्यानादि देवगतेर्मुक्तेश्च कारणं, न मुक्तेरेव, अर्थादिदमवगम्यमानमाह-पूर्वे त्वार्त्तरौद्रे संसारहेतू इत्यार्त्तरौद्रयोः संसा| रहेतुता, संसारश्च नरकादिभेदश्चतुर्गतिक इति, परमार्थतस्तु रागद्वेषमोहाः संसारहेतवस्तदनुगतं चातं, अथ रौद्रमपि प्रकृष्टतमरागद्वेष| मोहभाजोऽतः संसारपरिभ्रमण हेतुता तयोरिति ।। सम्प्रति ध्येयप्रकाराः विषयविकल्पनिमित्तभेदेनोच्यते - अत्राहेत्यादि सम्बन्धः । आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ९ ३१ सूत्रम् ॥
For Personal & Private Use Only
ध्यानानि
1186411
www.jainelibrary.org
Loading... Page Navigation 1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556