Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 497
________________ हरि० अभ्यन्तरं तपः स्थितो वा कालनियमभेदेन यदवतिष्ठते तत्तपः कायक्लेशाख्यं, तथा दंडायतशायित्वं नाम तपः ऋजुकृशशरीरः प्रसारितश्रीतत्त्वार्थ- जंघद्वयश्चलनरहितस्तिष्ठति यदा तदा तद्भवति, आतपनमप्यूर्ध्वस्थितस्य निविष्टस्य निषण्णस्य वा प्राग चालितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति, अप्रावरणाभिग्रहः शिशिरसमये प्रावरणअग्रहणं, आदिग्रहणाद्धेमंतेऽपि रजनीष्वातापन, संताप९ अध्या० नमात्मनः शीताभिसहनमित्यर्थः, तथा लगंडशायित्वमप्रतिकर्मशरीरत्वमस्नानक केशोल्लुंचनमित्येवमेतानि स्थानवीरासनादीनि , सम्यक्प्रयुक्तान्यागमवचनादनुगतानि बाह्य तपो यथाशक्ति विधिनाऽनुष्ठेयम् , अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधीन् पीडयेत् , अविध्युपयुक्तविषवत् , किं पुनरितो बाह्यात्तपसः फलमवाप्यत इत्याह-अस्मात् षड्डिधादपि याह्यात्तपस इत्यादि, संगत्यागं शरीरलाघवमिन्द्रियविजयं संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते, तत्र निःसंगत्वं बाह्याभ्यन्तरोप| धिष्वनभिष्वंगो-निर्ममत्वं, प्रतिदिनमतिमात्राहारोपयोगात प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारिताया अयोग्यता, तद्वर्जनात्तु शकटाक्षाभ्यंजनवदुपयोगाद्वा शरीरलाघवमुपजायते, ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकाद् विजयः, भक्तपा-| नार्थमहिंडमानस्य वर्षाजनितजन्तूपरोधाभावात् संयमसंरक्षणं, निसंगादनशनादितपोऽनुतिष्ठतः शुभध्यानाध्यवसितस्य कर्मनिर्जरMणमवश्यं भावीति तपस्तत्र बाह्यमुक्तं, अधुनाऽभ्यन्तरमुच्यते, तच्चातिशयेन कर्मनिर्दहनक्षम ।। प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरं ॥९-२० ॥ सूत्रम् ॥ अन्तरव्यापारभूयस्त्वादन्यतीर्थविशेषतः बाह्यद्रव्यानपेक्षत्वादन्तरं तप उच्यते, प्रायश्चित्तादीनां ध्यानान्तानां द्वन्द्वः, मूलोत्त॥४७७॥ रगुणेषु स्वल्पोऽप्यतीचारश्चित्तं मलिनयतीति तत्प्रकाशनाय शुद्धयैव प्रायश्चित्तं विहितं, पापोच्छेदकारित्वात् प्रायश्चित्तमिति, वात् संयमसंरक्षण, पवमुपजायते, ततश्चाप्रशरीरस्य गौरवं, ततगत ॥४७७॥ याश्चत्तमिति. For Personal Private Use Only

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556