Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
| कायक्लेश
श्रीतचार्थ
हरि० ९ अध्या०
मदोपं देवकुलं-दुर्गाद्यातयनादि सभा-यत्र प्राङ् मनुष्याः समवायमकृषत सम्प्रति तु न तत्र समवयंति पर्वतविवरं गिरिनगरादाविव लयनानि, आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मंडपकादि परिगृह्यते, एषां यथोक्तानामन्यतमस्थाने व्यवस्थानं, किमर्थमिति चेत् समाध्यर्थ समाधिर्ज्ञानदर्शनचारित्रतपोवीर्यात्मकः पंचधा, समाधानं समाधिः-स्वच्छता ज्ञानादीनामपरिहाणि| विवृद्धिश्च, इत्थमियं सलीनता तपोविशेषः, इंद्रियाणि संयम्य सस्वान्तानि क्रोधादिकपायकदंबकं च विविक्तं शय्यासनमासे|वमानस्य संलीनता भवतीति, प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन, कषायसंलीनता क्रोधस्य तावदुदयनिरोधः प्राप्तोदयस्य | वा वैफल्यापादनं, एवं शेषाणामपि, तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा, एवं वागपि वाच्या, कायव्यापारे समुत्पन्नप्रयोजजस्य यत्नवतः संलीनताव्यपदेशमश्नुते, विना प्रयोजनेन निश्चलासनमेव श्रेयः, विविक्तचर्या तु भाष्यकृतैवोक्ता। ___कायक्लशोऽनेकविध इत्यादि (१९२-१४) कायः-शरीरं तस्य क्लेशो-बाधनं, कायात्मनोरभेदः, संसार्य्यवस्थायामन्योऽन्यानुगतत्वात् क्षीरोदकयोरिख, अतः कायबाधायात्मनोऽपि कायद्वारेण क्लेशोपपत्तिः, सम्यग्योगनिग्रहो गुप्तिरित्येतस्मात् सम्य| ग्रहणमनुवर्तते, तच्च कायक्लेशविशेषमागमानुसारिणां सम्यक् क्लेशोत्पत्तिनिर्जरायै भवतीति, स चागमोऽनेकप्रकारः, कायक्लेश उपन्यस्तः,तद्यथेत्यादिना तदनेकविधत्वं दर्शयति, स्थान वीरासनेत्यादि, स्थानग्रहणाद् ऊर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः तस्य चाभिग्रह विशेषाः स्वशक्त्यपेक्षाः कालनियमश्चंद्रावतंसकनृपतेरिवावगन्तव्यः, वीरासनं जानुप्रमाणासनसन्निविष्टस्याधस्तात् समा| कृष्यते तदासनं निश्चेष्टं च तदवस्थ एवास्ते कायक्लेशाख्यं तपो भवति, तत्राप्यभिग्रहविशेषादेव स्वसामर्थ्यापेक्षात् कालनियमः, उत्कटुकासनं तु प्रसिद्धमेव, विनाऽऽसनेन भूमावप्राप्तस्फिगद्वयस्य भवति, एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यव
॥४७६॥
॥४७६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556