________________
हरि०
अभ्यन्तरं तपः
स्थितो वा कालनियमभेदेन यदवतिष्ठते तत्तपः कायक्लेशाख्यं, तथा दंडायतशायित्वं नाम तपः ऋजुकृशशरीरः प्रसारितश्रीतत्त्वार्थ- जंघद्वयश्चलनरहितस्तिष्ठति यदा तदा तद्भवति, आतपनमप्यूर्ध्वस्थितस्य निविष्टस्य निषण्णस्य वा प्राग चालितगभस्तिजालस्य
सवितुरभिमुखस्थितस्य भवति, अप्रावरणाभिग्रहः शिशिरसमये प्रावरणअग्रहणं, आदिग्रहणाद्धेमंतेऽपि रजनीष्वातापन, संताप९ अध्या०
नमात्मनः शीताभिसहनमित्यर्थः, तथा लगंडशायित्वमप्रतिकर्मशरीरत्वमस्नानक केशोल्लुंचनमित्येवमेतानि स्थानवीरासनादीनि , सम्यक्प्रयुक्तान्यागमवचनादनुगतानि बाह्य तपो यथाशक्ति विधिनाऽनुष्ठेयम् , अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधीन् पीडयेत् , अविध्युपयुक्तविषवत् , किं पुनरितो बाह्यात्तपसः फलमवाप्यत इत्याह-अस्मात् षड्डिधादपि याह्यात्तपस इत्यादि, संगत्यागं शरीरलाघवमिन्द्रियविजयं संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते, तत्र निःसंगत्वं बाह्याभ्यन्तरोप| धिष्वनभिष्वंगो-निर्ममत्वं, प्रतिदिनमतिमात्राहारोपयोगात प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारिताया
अयोग्यता, तद्वर्जनात्तु शकटाक्षाभ्यंजनवदुपयोगाद्वा शरीरलाघवमुपजायते, ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकाद् विजयः, भक्तपा-| नार्थमहिंडमानस्य वर्षाजनितजन्तूपरोधाभावात् संयमसंरक्षणं, निसंगादनशनादितपोऽनुतिष्ठतः शुभध्यानाध्यवसितस्य कर्मनिर्जरMणमवश्यं भावीति तपस्तत्र बाह्यमुक्तं, अधुनाऽभ्यन्तरमुच्यते, तच्चातिशयेन कर्मनिर्दहनक्षम ।।
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरं ॥९-२० ॥ सूत्रम् ॥
अन्तरव्यापारभूयस्त्वादन्यतीर्थविशेषतः बाह्यद्रव्यानपेक्षत्वादन्तरं तप उच्यते, प्रायश्चित्तादीनां ध्यानान्तानां द्वन्द्वः, मूलोत्त॥४७७॥
रगुणेषु स्वल्पोऽप्यतीचारश्चित्तं मलिनयतीति तत्प्रकाशनाय शुद्धयैव प्रायश्चित्तं विहितं, पापोच्छेदकारित्वात् प्रायश्चित्तमिति,
वात् संयमसंरक्षण, पवमुपजायते, ततश्चाप्रशरीरस्य गौरवं, ततगत
॥४७७॥
याश्चत्तमिति.
For Personal Private Use Only