SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थ हरि० आलोचनाद्याः ९अध्या प्रायो-बाहुल्येन चित्तविशुद्धिहेतुत्वात् यत् प्रायश्चित्तं, विनीयते येनाष्टप्रकार कर्मापनीयते स विनयः, श्रुतोपदेशेन व्यावृतोव्यग्रस्तद्भावो वैयावृत्यं, सुष्टु मर्यादया कालापरिहारेण पौरुष्यपेक्षया स्वाध्यायः, विविधस्यानपानवस्त्रपात्रादेः संसक्तस्यातिरितस्य वा परित्याग उत्सर्गः, वाकायचित्तानामागमविधानेन निरोधो ध्यानमुत्तरमिति पूर्वसूत्रोपन्यस्तसूत्रानुपूर्वीप्रामाण्यादुत्तर|मित्यम्यन्तरमाह, एतदपि पदप्रकारमभ्यन्तरं तप इति, तदेतदाभ्यंतरं तपः नवचतुर्दशपंचद्विभेदं यथाक्रम प्राग् ध्यानात् ।। ९-२१ ।। सूत्रम् ॥ नव चत्वारश्च दश पंच द्वौ च भेदाश्च ते नवचतुर्दशपंचद्विभेदाः,एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः, यथाक्रममिति यथा- | संख्यं प्राग् ध्यानात् प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति,इतोऽस्मात् सूत्रादुत्तरं यद्वक्ष्यामः प्रायश्चित्तादि तदित्थंभेदमास्थेय|मिति । तथेत्यनेन सूत्रं सम्बन्धाति, अभ्यन्तरतपोभेदस्य निर्दिष्टविकल्पसंख्यभेदस्य तद्भेदानामाख्याविशेषप्रज्ञात्यर्थमिदमुच्यते आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप छेदपरिहारोपस्थापनानि ॥ ९-२२ ॥ सूत्रम् ॥ आलोचनादयः उपस्थापनान्ताः कृतद्वन्द्वाः नपुंसकलिंगेन निर्दिष्टाः, प्रायश्चित्तं नवभेदमित्यादि विवरणं, उपसंख्यानि-| | कः सुद्, तद्यथेत्यादिना नवापि भेदा विवेकेन दर्शयति, तदुभयमित्येतद् व्याचष्टे, आलोचनप्रतिक्रमणे इति, एतदित्यने| नालोचनं प्रतिक्रमणं च अहीनमेव च तृतीयो भेदः, आलोचनादीन भाष्यकार एव विवृणोति, अनया मर्यादया दोषरहितं कार्या| कार्यमव्युत्पन्नबालजल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोतीति दर्शयति, प्रकाशयत्यालोचनायि गुरवे, तत्र कश्चिदतीचारो गमनागमनादिकः प्रमादक्रियाविशुद्ध्यर्थमालोचनामात्रादेव विशुद्ध्यति, तस्यालोचनस्यैकार्थाः पर्यायाः, आलोचनं मर्यादया | ॥४७८॥ ॥४७८॥ Jan Education r ational For Personal Use Oy
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy