SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० परीषहजयफलं ९ अध्या० नामकम्मोदयात् तीर्थस्य प्रयाणकः वन्दनपूजा)हन तेनामोधवचनेन स्वाख्यातः अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः | सुष्टु उत्सर्गापवादलक्षण आख्यातः धर्म इत्येवमस्य धर्मस्वाख्यातत्त्वमनुचिंतयतो मार्गाच्यवनेन तदनुष्ठानेन च । व्यवस्थानं भवतीति मार्गो रत्नत्रयं मुक्तेः स्वरूपं वा तसादच्यवनं-अपतनं तदिदं मार्गस्य सम्बन्धः तस्यानुष्ठानं श्रद्धानखा| ध्यायक्रियाचरणमिति,तदेव च परमार्थतोऽच्यवनं मार्गाद्यथोक्तक्रियानुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा१२॥ उक्ता अनुप्रेक्षाः सोदाहरणाः, सम्प्रति परीपहान् पक्ष्याम इति प्रतिजानीते मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः ॥२-८ ॥ सूत्रम् ॥ ___ अर्थशब्दः प्रत्येकमभिसंवध्यते, मार्गाच्यवनाथं निर्जरार्थ, परीषहसहने मार्गाच्यवनं प्रयोजनं, कदाचित् क्लिष्टचित्तः क्लीयत्वात् तत्सहनाप्रवृत्तः सन्मार्गात् प्रच्यवेतापि अतस्तत्सहनादरः, मार्गस्थस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्पचेतसो निराकुलिकध्यानस्य जायते कर्मनिर्जरा, एतदेवाह-सम्यग्दर्शनादेरित्यादि (१९५-१६) तच्चार्थश्रद्धानादिलक्षणो मार्गो निवृत्तेरात्यन्तिस्याः तस्मान्मार्गान् मा प्रच्युतिर्भविष्यतीति सह्यन्ते परीपहाः, तथा ज्ञानावरणादिकर्मक्षपणार्थ परिपोढव्याः परीषहाः, | सिद्धिप्राप्तिकारणसंवरविघ्नहेतवः परिषोढव्या परीषहा इति निर्वचनं,समन्तादापततः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः पोढव्याः सहितव्याः परीषहाः,भण्यन्ते परीषात इति परीपहाः, कियंतस्ते के च पुनः किस्वरूपा वेत्याह-तद्यथेति संख्यादिनिरूपणोपक्रमणं । क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्याशय्यानिषद्याक्रोशयाचनाऽलाभरोगतृणस्पर्शमल सत्कारपुरस्कारप्रज्ञाज्ञानसम्यक्त्वानि ॥ १-१॥ सूत्रम् ।। ॥४५९॥ ॥४५५|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy