SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीवत्वार्थ हरि. ८ अध्या० madhumal नोकषायखरूप लयंतीति संज्वलनाः,यथाह-"संज्वलयंति यतिं यत् संविग्नं सर्वपापविरतमिति । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यते ॥१॥"| इतिशब्दः कषायवेदनीयेयत्तामाह, 'एकश' इति एकैकस्य अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनकषायस्य क्रोधादयो भेदाश्चत्वारचत्वार इति, तत्र अप्रत्याख्यानक्रोधाद्युदाहरणानि भूराज्यस्थिमेषशृंगकर्दमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेः जलराशितिनिसलतावलेहहरिद्रारागाः, एवमेते षोडश भेदाः कषायवेदनीयस्येति । प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते, नोकषायवेदनीयं नवभेदमिति कषायैकदेशत्वात् कषायविशेषत्वाद्वा नोकषायाः-हास्यादयः, | मिश्रार्थो वा नोशब्दः, कषायसहवृत्तय एते स्वकार्यनिर्वर्तनप्रत्यलाः, न हमीषां पृथक् सामर्थ्यमस्ति, यद्दोषश्च यः कषायस्तत्| सहचारिणः एतेऽपि तत्तदोषा एव भवंति, एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायंते, तस्मादेतेऽपि चरणोपघातकारित्वात् तत्तुल्यतयैव ग्राह्याः, तथा अन्येनाप्यवाचि-"कषायसहवर्तित्वात् , कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता॥१॥"तथत्यनेन नवापि नोकषायान् खरूपेणाख्यातुमुपक्रमते,तत्र हास्यनोकपायमोहोदयात् सनिमित्तमनिमित्तं वा हसति-स्मयते रंगावतीर्णनटवत् , रतिमोहोदयाद् बाह्याभ्यंतरेषु रतिः-प्रीतिः आसक्तिः इष्टेषु वा शब्दादिविषयेषु, अरतिमोहो| दयादेतेष्वेवाप्रीतिररतिः, शोकमोहोदयात् परिवेदते हंति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोटते भुवः पीठ इत्यादि, भयमोहोदयात् सत्युद्धिजते वेपत इत्यादि, जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि, पुरुष-1 वेदमोहोदयादनेकाकारासु खीष्वमिलाप आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा 'संकल्पजाखपी'त्यादि,स्त्रीवेदमोहोदयात् ॥३८२॥ नानाकारेषु पुरुषेष्वमिलापः, संकल्पजेषुचेत्यादि, नपुंसकवेदमोहो बहुभेदः, तदुदयादू कस्यचित् स्त्रीपुरुषद्वयविषयोऽप्यभिलाषः ॥३२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy