Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________ तस्यालाभो, दौर्मनस्यं मानसमेव दुःखं मरणमल्पायुषत्वादुपक्रमसन्निधानाद्वा सकलायुषः परिक्षयाद्वाऽवश्यतया प्राणिनां संसारे श्रीतत्वार्थ-|| भवति, आदिग्रहणाद् वधबंधपरिक्लेशशीतोष्णदंशमशकद्वन्द्वामिभवः। एवंजन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं ||| संसारहरि० / भावना | नास्तीत्यालोचयति, सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु सुवर्णादिषु च | 9 अध्या० नाभिष्वंगो न प्रीतिर्भवतीति परमपिप्रणीतशासनाभिहित एव विधौ ज्ञानचरणादिलक्षणे घटते प्रवर्त्तत इति जन्मजरामरणभयपरिष्वक्तस्य च यस्मात्तदेव परं प्रकृष्टं शरणमित्यशरणानुप्रेक्षा 2 // संसारानुप्रेक्षानिरूपणाय प्रक्रम्यते-अनादौ संसार(१८९-१६) इत्यादि, अविद्यमान आदिर्यस्यासावनादिःन अभूत उत्पन्नो | नाप्युत्पादितः केनचिदिति, संसरणम्--इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन,भवशब्दो जन्मवचनः, नरकादिजन्मनां ग्रहणान्युपादानानि तेषु चक्रवत्तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षितिजलदहनपवनवनस्पतिशरीराः द्वित्रिचतुःपंचेन्द्रियलक्षणाः स्वजनकाः संतो यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बद्धतामन्बभूवन्ननुभवंत्यनुभविष्यति वा, तदा खजनकाः | स्वाम्यादयो वा यदा नासम्बन्धास्तदा परजनाः। एतदेव दर्शयति-न हि स्वजनपरजनयोर्वा व्यवस्था विद्यत इति, न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति, स्वजनो भूत्वा कर्मानुभावात् परजनो भवति,परजनश्च भूत्वा स्वजनो भवतीयमव्यवस्थैव संसारे, न व्यवस्थास्यतीति / माता हि भूत्वेत्यादिना, तामेवाव्यवस्था प्रपंचयति,एवं चतुरशीतियोनिप्रमुखशतसहस्रष्वित्यादि, योनिर्यत्र सन्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद् बैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्मण, तत्र | // 449 / / // 449 // पृथिवीजलज्वलनसमीरणेषु प्रत्येकं सप्त लक्षाः दश लक्षाः प्रत्येकवनस्पतिषु निगोदजीवेषु चतुर्दश लक्षाः द्वित्रिचतुरिंद्रियेषु प्रत्येक ItallinointHIKARAI A D Iminate For Personal Private Use Only
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556