________________ तस्यालाभो, दौर्मनस्यं मानसमेव दुःखं मरणमल्पायुषत्वादुपक्रमसन्निधानाद्वा सकलायुषः परिक्षयाद्वाऽवश्यतया प्राणिनां संसारे श्रीतत्वार्थ-|| भवति, आदिग्रहणाद् वधबंधपरिक्लेशशीतोष्णदंशमशकद्वन्द्वामिभवः। एवंजन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं ||| संसारहरि० / भावना | नास्तीत्यालोचयति, सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु सुवर्णादिषु च | 9 अध्या० नाभिष्वंगो न प्रीतिर्भवतीति परमपिप्रणीतशासनाभिहित एव विधौ ज्ञानचरणादिलक्षणे घटते प्रवर्त्तत इति जन्मजरामरणभयपरिष्वक्तस्य च यस्मात्तदेव परं प्रकृष्टं शरणमित्यशरणानुप्रेक्षा 2 // संसारानुप्रेक्षानिरूपणाय प्रक्रम्यते-अनादौ संसार(१८९-१६) इत्यादि, अविद्यमान आदिर्यस्यासावनादिःन अभूत उत्पन्नो | नाप्युत्पादितः केनचिदिति, संसरणम्--इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन,भवशब्दो जन्मवचनः, नरकादिजन्मनां ग्रहणान्युपादानानि तेषु चक्रवत्तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षितिजलदहनपवनवनस्पतिशरीराः द्वित्रिचतुःपंचेन्द्रियलक्षणाः स्वजनकाः संतो यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बद्धतामन्बभूवन्ननुभवंत्यनुभविष्यति वा, तदा खजनकाः | स्वाम्यादयो वा यदा नासम्बन्धास्तदा परजनाः। एतदेव दर्शयति-न हि स्वजनपरजनयोर्वा व्यवस्था विद्यत इति, न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति, स्वजनो भूत्वा कर्मानुभावात् परजनो भवति,परजनश्च भूत्वा स्वजनो भवतीयमव्यवस्थैव संसारे, न व्यवस्थास्यतीति / माता हि भूत्वेत्यादिना, तामेवाव्यवस्था प्रपंचयति,एवं चतुरशीतियोनिप्रमुखशतसहस्रष्वित्यादि, योनिर्यत्र सन्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद् बैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्मण, तत्र | // 449 / / // 449 // पृथिवीजलज्वलनसमीरणेषु प्रत्येकं सप्त लक्षाः दश लक्षाः प्रत्येकवनस्पतिषु निगोदजीवेषु चतुर्दश लक्षाः द्वित्रिचतुरिंद्रियेषु प्रत्येक ItallinointHIKARAI A D Iminate For Personal Private Use Only